पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

( २९१ )

उत्प्रतापदहनं मुखं चिहन्नाहवे त्वदसिरिन्द्रजालिकः ।
दिव्यमस्तकसमागमं द्विपां लूनमर्त्यशिरसां करोति यत् ॥४१॥

अन्वयः

 

आहवे त्वदसिः उत्प्रतापदहनं मुखं वहन् इन्द्रजालिकः (भवति) यत् लूनमर्त्यशिरसां द्विपां दिव्यमस्तकसमागमं करोति ।

व्याख्या

 आहवे युद्धे तव असिस्त्वदसिर्भवदीयखड्ग ऊद्गत ऊध्वं प्रसारितः प्रताप एव दहनोऽग्निर्यस्मात्तदुत्प्रतापदहनं मुखमाननमुग्रभागञ्च वहन् धारयन्निन्द्रजालिक इन्द्रजालविद्याप्रवीणो मायावी भवति । यद्यस्मात्कारणात् स लूनं छिन्नं मर्त्यं मरणशीलं विनाशीत्यर्थः। शिरो येषां ते लूनमर्त्याशिरसस्तेषां छिन्नविना- शिमस्तकानां दिव्यानां स्वर्गीयाणां मस्तकानां शिरसां सगागमं प्रापणं करोति । यया कश्चिदिन्द्रजालिको मुखादग्निनिस्सरणं प्रदर्शयन् चमत्कारयुक्तानि कार्याणि करोति तथैव तव खङ्ग ऊर्ध्वप्रसारितप्रतापरुपदहनयुक्तं मुखं धारयन् लूनशिरसां शत्रुणां रणे मरणात्तेषां स्वर्गप्राप्तिनिश्चितेति हेतोस्तेषां नूतनदिव्यमस्तकान् संदधाति । अत्रोतरार्धगतवाक्यार्थस्येन्द्रजालिकत्वे हेतुतया कथनात्काव्य- लिङ्गमलङ्कारः ।

भाषा

 युद्ध में, ऊपर उठने वाले तेज रूपी अग्नि से युक्त मुख या नोक बाली । तुम्हारी तलवार, इन्द्र जालिक हो जाती है । वयो कि कटे हुए मानवी मस्तक वाले शत्रुओ को वह दिव्य भस्तको से युक्त कर देती है । अर्थात् युद्ध में जो वीर मरते है वे स्वर्ग में जाते है यह प्रसिद्धि है । इसलिये तुम्हारी तलवार इन्द्रजालिक के रामान सिर कटे शत्रुओ को काल्पनिक दिव्य मस्तको से युक्त कर स्वर्ग में भेज देती है ।

भाग्यभूमिमपि भारतादिषु त्वादृशं न शृणुमः प्रतापिनम् ।
दर्शनेन विजयश्रियं रणेप्यन्यसङ्गविमुखीं करोति यः ॥४२॥

अन्वयः

 भारतादिषु अपि त्वादृशं भाग्यभूमिं प्रतापिनं न श्रुणुमः । यः रणेषु दर्शनेन विजयश्रियम् अन्यसङ्गविमुखीं करोति