पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३०८ )


 कदर्थनेन पीडनेनोज्झिता परित्यक्ता भवति ,या पृथिवी गुणैर्दयादाक्षिण्यशौर्यादि गुणैरुज्ज्वलं प्रशस्यं त्वां भवन्तं पतिं स्वामिनं लभतेः प्राप्नोति ।

भाषा

,


 हे महावीर ! आप जिस पृथ्वी पर अर्थात् जहाँ रहोगे वह भूमि पुण्य के सुरा ऐश्ययं समृद्धि आदि फ़लो को अवश्य प्राप्त करेगी । वह भूमि दुष्टराजाको की पीड़ा से मुक्त हो जाएगी जो दया दाक्षिण्य शौर्यं आदि गुणो से देदीप्यमान आपको अपना स्वामी पाएगी । अर्थात् आप जहाँ रहोगे वह भूमि अवश्य समृद्धि शाली हो जाएगी और उसको कभी भी दुष्ट राजा लोग पीडित न कर सकेंगे ।


त्वद्भिया गिरिगुहाश्रये' स्थिताः साहसाङ्क गलितत्रपा नृपाः ।
ज्यारवप्रतिरवेण तानपि त्वद्धनुः समरसीम्नि बाधते ॥४०॥

अन्वयः


 हे साहसाङ्क ! (ये) नृपाः गलितत्रपाः (सन्तः) त्यद्भिया गिरिगु हाश्रये स्थिताः तान् अपि त्वद्धनु समरसीम्नि ज्यारवप्रतिरवेण बाधते ।


व्याख्या

विक्रमाङ्कदेव। हे साहसाङक ! साहसं विक्रम एवाङ्को विजयलक्षणं ‘कलङ्काङ्कौ लाच्छ- न्ञ्च चिन्हं लक्ष्म च लक्षणम्' इत्यमरः । यस्य स तत्सम्बोधने हे साहुसाङ्क हे विक्रमाङ्कदेव! ये नृपा भूपा गलिता विनिर्गता त्रपा लज्जा येषां ते विगत लज्जास्सन्तस्त्वतो भीस्तया भवद्भयेन गिरीणा पर्वतानां गुहाः कम्दरा एवाऽश्रयः रक्षास्थानं तस्मिन् स्थितास्तानपि तव घनुश्चापः समरसीम्नि समराङ्गणे ज्याया मौर्व्या रवस्य शब्दस्य प्रतिरवः प्रतिध्वनिस्तेन बाधते पीडयति । पर्वतकन्दरा स्वयि विक्रमाङ्कदेवस्याऽऽगमनभयादिति भावः ।

भाषा


हे विक्रमाङ्कदेव ! जो राजा लोग लज्जा को छोड तुम्हारे डर से पर्वतो की कन्दराओ में छिप कर बैठ जाते है उनको भी तुम्हारा धनुष समर भूमि में प्रत्यञ्चा की टङ्कार को प्रतिध्वनि से पीड़ित करता है।

  • । गिरिगह्वसु

ये' इत्यपि पाठान्तरम् ।