पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३०५ )


निर्मदत्वमुपयान्ति हन्त ते ज्यारवैः करटिनो दिशामपि ।
कश्मलैः परिहृता इवालिभिर्यद्भजन्ति ककुभः प्रसन्नताम् ॥३५

अन्वयः

 ते ज्यारवैः दिशा करटिनः अपि हन्त निर्मदत्वम् उपयान्ति । यत् अलिभिः इव कश्मलै परिहृताः ककुभः प्रसन्नतां भजन्ति ।

व्याख्या

 ते तव विक्रमाङ्कदेवस्य ज्याया मौर्व्या रवा स्वनास्तैर्ज्यारवै शिञ्जिनी निर्घोषै ‘मौर्वी ज्या शिञ्जिनी गुण 'इत्यमर। दिशा ककुभां करटिनो गजा अपि दिग्गजा अपीत्यर्थ " । हन्तेति हर्षे, 'हन्त बानेऽनुकम्पायां वाक्यारम्भविषादयो । निश्वर्ये च प्रमोदे च' इत्यमर । निर्मदत्वं भयेन मदराहित्यमुपयान्ति प्राप्नुवन्ति । ते ज्यारव श्रुत्वा दिग्गजा स्वाहकार परिहृत्य भीतास्सन्तो मदरहिता भवन्तीति भाव । यद्यस्मात्कारणादलिभिरिव भ्रमरैरिव कश्मलैर्मोहैं" । ‘मूर्छा तु कश्मलं मोहोऽप्यवमर्दस्तु पीडनम्’ इत्यमर । कुनृपकृतदुष्कर्मभि रिव्यर्थः । परिहृता रहिताः ककुभो दिश" प्रसन्नता नैर्मल्य भजन्ति समाश्रयन्ति । कश्मलस्याडलिभिस्साम्यादुपमा

भाषा


 यह कहते हर्ष होता है कि आप की प्रत्यञ्चा के शब्द को सुन कर दिग्गज भी भय से गद रहित हो जाते हे । मद जल के न वहने से भ्रमरो के न आने के कारण, भ्रमर रूपी दुष्ट राजाओ का कुकृत्य स्वरूप कालिमा के दूर हो जाने से दिशाएँ प्रसन्न हो जाती है ।


त्वादृशेन विजिगीषुणा मिना क्षत्रमक्षममसाध्यसाधने ।
प्लाघनाय जगतः प्रगल्भते नो युगान्तसमयं विनाम्बुधिः ॥३६॥


अन्वयः

 क्षत्र, त्वादृशेन विजिगीषुण विना असाध्यसाधने अक्षमम् । अम्बुधिः युगान्तसमयं विना जगतः प्लापनाय नो प्रगल्भते ।