पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २९० )

{{bold|


अत्यजत् प्रतिगज् मतङ्गजः पार्श्वसङ्गतकरेणुलोभतः ।
यत्र तत्र भुजदण्डचण्डिमा चित्रमप्रतिहतो मनोभुवः ॥१४

{{c|

अन्वयः

 {{bold| मतङ्गजः पार्श्वसंगतकरेणुलोभतः प्रतिगजम् अत्यजत् । यत्र तत्र मनोभुवः भुजदण्डचण्डिमा अप्रतिहतः (इति) चित्रम् । व्याख्या मतङ्गजो नागः 'मतङ्गजो गजो नागःइत्यमरः । पार्श्वे समीपे संगता मिलिता करेणुर्हस्तिनी ‘करेणुरिभ्यां स्त्री नेभे' इत्यमरः । तस्या लोभतः प्रलोभात् प्रतिगजं प्रतिमल्लनागमत्यजत् । यत्र तत्र सर्वत्र मनसा

भवतीति मनोभूः कामस्तस्य मनोभुवः कामस्य भुजदण्डस्य दोर्दण्डस्य चण्डिमा शौर्यमप्रतिहतो निर्बाधगतिरिति चित्रमाश्चयंकरम् । कामशरताडितस्सर्वं परित्यज्य तद्वशे भवतीति भावः ।

भाषा

भाषा

 {{bold|

हाथी ने पास ही में विद्यमान एक हथिनी के लोभ से विपक्षी हस्ती को छोड़ दिया। क्या आरचयं की बात है कि कामदेव के भुजदण्ड के प्रराक्रम में रोक टोक करने वाला कोई नही है । अर्थात् सभी जीव् कामदेव के वशीभूत हे ।{{bold|<poem>  रुद्धवर्त्मसु गजेषु वाजिनः प्रापुरम्भसि निमञ्जनं चिरात् । लब्धतीरतरुकण्टकैः पुनर्नेंक्षितापि तटिनी क्रमेलकैः ॥१५॥

अन्वयः

अन्वयः

गजेपु रुद्धवर्मसु (सत्सु) वाजिनः अम्भसि चिरात् निमञ्जनं प्रापुः । लब्धतीरतरुकण्टकैः क्रमेलकैः पुनः तटिनी ईक्षिता अपि न । व्याख्या गजेषु हस्तिषु रुद्धं प्रतिरूद्धं वर्त्मं मार्गं यैस्ते रुद्धवर्त्मानस्तेषु रुद्धवर्त्मसु प्रतिबद्धमार्गेषु सत्सु ‘अयन वर्त्म मागfध्यपन्थानः पदवी सृतिः' इत्यमरः । याजिनोऽश्वाः ‘जिवाहर्यगन्धर्वहयसैन्धयसप्तपःइत्यमरः । अम्भसि जले