( २८२ )
गुप्तभूषणरवेव सर्वतस्तूर्यमङ्गलनिनादशान्तितः । |
अन्वयः
विलक्ष्यचेतसा भूभुजा सर्वतः तूर्यमङ्गल निनादशान्तितः गुप्तभूषणरवा इव श्रीः तस्य पृष्टचलिता इव अलक्ष्यत ।
व्याख्या
विगतं विनष्टं लक्ष्यं ज्ञानविषयो यस्मत्तद्विलक्ष्यं ज्ञानविषयरहितं चेतश्चित्तं यस्य रा तेनाऽज्ञानिना भुवं पृथ्वीं भुनक्ति स्वोपभोगे समानयतीति भूभुक् तेन भूमीश्वरेण सोमदेवेन सर्वतस्सर्वासु दिक्षु तूर्यस्य भेर्यां मङ्गलनिनादः मङ्गलध्व निस्तस्य शान्त्यास्तूर्यमङ्गलध्वनसमप्तितः ‘पञ्चम्यास्तसिल् इति तसिल् प्रत्ययः । गुप्तः प्रच्छन्नो भूषणनामलङ्काराणां रवस्स्वनो यस्याः सा भूषण- शब्दरहितेव श्री राज्यलक्ष्मीस्तस्य विक्रमाङ्कदेवस्य पुष्ठे पृष्ठतश्चलितेव चलन्ती वाऽलक्ष्यत दुष्टा । गते विक्रमाङ्कदेवे राज्यलक्ष्ममपि तत्पश्चाद्गतामिवाऽ- नुमाति स्मेति भावः । अत्र माङ्गलिकतूर्यंबन्यभाषाभूषणशब्दशन्यत्वस्य पश्चाच्चलनस्य चोत्प्रेक्षणादुत्प्रेक्षालङ्कारः ।
भाषा
विक्रमाङ्कदेव के प्रस्थान समय चारो और कही भी तुरही का मङ्गलनाद न होने से अज्ञानी राजा सोमदेव ने, राज्य लक्ष्मी मान अपने आभूषणो के झकारो को दबाकर उसके पीछे चली जा रही है, ऐसा अनुभव किया ।
अङ्कवर्तिनमशङ्कमाः कथं नाहमेनमुपरुद्धवानिति । |
अन्वयः
आः। अङ्कपर्तिनम् अशङ्कम् एनम् अहं कथं न उपरुद्धवान् इति विभावरीषु तल्पनिर्लुठनशीर्णचन्दनः सः पर्यंतप्यत ।
व्याख्या
आः । इत्यत्यन्तखेदे । अङ्के उत्सङ्गे वर्तते इत्यङ्कवर्ती तमङ्कवर्तिनं मदधीनं कल्याणपुरस्य शङ्कया मत्तः स्वायत्तीकरणस्य सन्देहेन रहितमशङ्कमेनं विक्रमाङ्क-