पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

।। श्री. ।।

महाकवि श्री विल्हण विरचितं विक्रमाङ्कदेवचरितम्

पञ्चमः सर्गः ।


नेष दुर्मतिरिमं सहिष्यते राज्यकण्टकविशोधनोद्यतः ।
अग्रजादिति विशङ्कय सङ्कटं सिंहदेवमनुजं निनाय सः ॥१॥

अन्वयः

 सः, राज्यफण्टकविशोधनोद्यतः दुर्मतिः एषः इमं न सहिष्यते इति अग्रजात् सङ्कटं विशङ्कय अनुजं सिंहदेवं निनाय ।

व्याख्या

स विक्रमाङ्कदेव, राज्यस्य स्वराष्ट्रस्य कण्टकाः शत्रुरीपदायादास्तेषां विशोधनेऽपसारणे मारणे इत्यर्थः । उद्यतस्तत्परे स्वराष्ट्रदायाददूरीकरणे समुद्यतो दुर्मतिर्दुर्बुद्धिरेष सोमदेव इस सिंहदेवनामानं कनिष्ठभ्रातरं न सहिष्यते स्वानुकूल्येन न मंस्यते तस्यापि विनाशे समुद्यतो भवेदिति भावः । इति हेतोरप्रजात्सोमदेवात्संकटं बाधां विशङ्क्य वितर्क्याऽनुजं कनिष्ठभ्रातरं सिंहदेवं जयसिहापरनामान निनायऽप्रमन सह नीतवान् । अस्मिन् सर्गे रथोद्ध• ताच्छन्दः।-- ' रात्राविह रथोद्धता लगौ' इति लक्षणात् ।

भाषा

 निष्कण्टक राज्य करने की इच्छा से, राज्य में बाधव दायादो को दूर कर देने में तत्पर, यह कुबुद्धि सोमदेव, कही छोटे भाई सिंहदव उर्फ जयसिह या भी अस्तित्व सहन न कर सके, ऐसे सबट की आशंका से, विक्रमाङ्कदेव ने उसको भी साप दे दिया ।