पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(२७९ )


 किन्तु सर्वेषां नृपसेनागजानां धैर्यंनाशं चक्रे। हरिणीछन्दः । ‘रसयुगहयैन्सौ घ्रौ स्लौ गो यदा हरिणी तदा' इति लक्षणात् ।

भाषा

 चालुक्य वश के शिरोभूषण विक्रमाङ्कदेव ने मन में ऐसा निश्चय कर दुन्दुभी के निनाद से कान के पडदो को फाडते हुए, प्रस्थान कर दिया । साथ ही साथ साहसव्रती उसने युद्ध होकर अपने बाणो से राजा की सेना के कितने ही हाथियो का धेयं भग नही किया अर्थात् राजा सोमदेव की सेना के सव हथियो को बाण मार कर भगा दिया ।


प्रत्यक्ता मधुनेव काननमही मौर्वीव चापोज्झिता
शुक्तिमौक्तिकवर्जितेव कविता माधुर्यहीनेव च ।।
तेनैकेन निराकृता न शुशुमे चालुक्यराज्यस्थितिः
सामर्थ्यं शुभजन्मनां कथयितुं कस्यास्ति वाग्विस्तरः ॥१२०॥

अन्वयः

एकेन तेन निराकृता चालुक्यराज्यस्थितिः मधुना प्रत्यक्ता काननमही इव, चापोषिता मौर्वी इव, मौक्तिवर्जिता शुक्ति इव, माधुर्यहीना फयिता इव च न शुशुभे । शुभजन्मनां सामर्थ्ये कथयितुं कस्य वाग्विस्तरः (अस्ति) ।}}

व्याख्या

एकेन तेन केवलमेकेनैव तेन विक्रमाङ्कदेवेन निराकृता परित्यक्ता चालुक्यस्य चालुक्यराजवंशस्य राज्यस्थिती राज्यदशां राज्यमर्यादा व मधुना वसन्तेन चैत्रेण वा ‘स्याच्चैत्रे चैत्रिको मधुः ' इत्यमरः । प्रत्यक्ता प्रकर्षेण त्यक्ता काननस्याड- रण्यस्य 'अटय्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः । मही भूमिरिव , चापेन धनुषोज्झिता दूरीकृता मौर्वी ज्येय, "मौवीं ज्या शिजिनी गुण. इत्यमरः । मौक्तिकैर्भुक्ताभिर्वर्जिता रहिता शुक्तिरिय मुक्तास्फोट इव ‘मुक्तास्फोटः स्त्रियां शुक्तिःइत्यमरः । माधुर्येण माधुर्यगुणेन हीन विरहिता कविता काम्यमिव, च न शुशुभे न शोभिता बभूव । शुभ माङ्गलिक जग्म जनुर्येयां ते शुभजन्मानस्तेषां ‘जनुर्जननजन्मानि जनित्पतिपद्भव' इत्यमरः । सामर्थ्य शक्ति कथयितुं