पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २७८ )

 

व्याख्या

मया विक्रमाङ्कदेवेन निबिडमत्यन्तं निपीडयमानास्संबाध्यमानाः पराजिता इत्यर्थः । ते द्रविडादयो द्रविड़देशनृपतिप्रभृतयो विपर्यैस्तमत्याचारिणमप्याऽऽयं ज्येष्ठभ्रातरं सोमदेवं बाधितुं पीडयितुं विजेतुमित्यर्थः । न प्रभवन्ति न समर्था भविष्यन्ति । दुराचारिण्यपि भ्रातरि सहजस्नेहात्तस्त दुराचारेण सम्भाविता- क्रमणकारिषु स्वयमाक्रमणं कृत्वा भातृरक्षणाद्विक्रमादेवस्य महापुरुषत्वं व्यज्यते दुराचारिणां राज्ञां पराजयोऽपि ध्वज्यते । block center  दक्षिण समूद्र की ओर जाकर द्रविड देश के राजा आदि को खूब पीसूँगा अर्थात् हराउँगा जिससे कुमार्ग में प्रवृत्त भी मेरे बड़े भाई को वे तंग न कर सकेंगे अर्थात् परास्त न कर सकेगें ।


इति स मनसा निश्चित्यार्थं चुलुक्यशिखामणिः
श्रवणरसणिं भिन्दन्भेरीरवेण विनिर्ययौ ।
अपि च कुपितः क्ष्माभृत्सेनागजेषु निजेषुभिः
कतिषु विदधे धैर्यध्वंसं न साहसलाच्छनः ॥११३॥

अन्वयः ‘चुलुक्यशिखामणिः सः इति अर्थ मनसा निश्चित्य भेरीरवेण श्रवण सरणिं भिन्दन् विनिर्ययौ । अपि च साहसलाच्छनः कुपितः (सन्) निजेषुभिः कृतिषु क्ष्माभृत्सेनागजेपु धैर्यध्वंसं न विदधे। चुलुक्यस्य चालुक्यवंशस्य शिखामणिश्चूिडारत्नं स विक्रमाङ्कदेव इति पूर्वोक्त प्रकारेणाऽर्थं सर्वं वस्तुजातं मनसा हृदयेन निश्चित्य निर्धार्य भेर्या दुन्दुभे रवेण नादेन ‘भैरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । श्रवणयोः कर्णयोः सरणिं रन्ध्रं भिग्वन् विदारयन् विनिर्ययौ विनिर्जगाम । अपि चाऽन्यच्च साहसमेवोत्साह एष लाच्छनं चिन्हं यस्य सः साहससाच्छन उत्साहव्रती कुपितस्सन् क्रुद्धस्सन् निजेषुभिस्स्वकीयमाणैः कतिषु कियत्सु क्ष्माभूतः नृपस्य सोमदेवस्य सेनाया बाहिन्या गजा हस्तिनस्तेषु धैर्यस्य धीरताया ध्वंसं विनाशं न विदधे न कृतवान् ।