पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २७६ )


अन्वयः

 (सः) अग्रजस्य दुराग्रहं निराकर्तुं न शशाक । राज्यग्रहगृहीतानां मन्त्रः कः भेषजं च किम् (अस्ति) ।

 

व्याख्या

 स विक्रमाङ्कदेवोऽप्रजस्य ज्येष्ठभ्रातुर्दुराग्रहं दुराचार प्रजापीडनरुप निराकर्तुं दूरीकर्तुं न शशाक न समर्थो बभूव । राज्यमेव ग्रहो दुष्टग्रहः पिशाचा- दिर्वा तेन गृहीतानामाक्रान्तानामाविष्टानां वा नृपाणां मन्त्रो ग्रहपिशाचादिदूरी- करणमन्त्रविशेष को, न कोऽपीत्यर्थः । भेषजमौषधं च किम् न किमपीत्यर्थः । राजमदेनाऽविष्टाना नृपाणां कृते न कोऽप्युपाय इति भावः ।}} भोपा।

भाषा

कुमार विक्रमाङ्कदेव अपने बड़े भाई के दुराचार को न रोक सका। राज्य रूपी क्रूर ग्रह से या पिशाचादि से गृहीत या आविष्ट राजाओं के लिये न कोई मन्त्र है न दवा है ।।


अचिन्तयच्च किं कार्यं विपर्यस्तधियामुना ।
अकीर्तिसंविभागस्य गमिष्याम्यत्र पात्रताम् ॥११६॥


अन्वयः

विपर्यस्तधिया अमुना किं कार्यम् अत्र अकीर्तिसंविभागस्य पात्रतां गमिष्यामि (इति) च अचिन्तयत् ।।

 

व्याख्या

विपर्यस्ता विपरीता धीर्बुद्धिर्यत्य तेन विपर्यस्तधिया 'बुद्धिर्मनीषा धिषणा घी: प्रज्ञा शैमुषी मति.' इत्यमरः । विपरीतबुद्धियुक्तेनाऽमुना सोमदेवेन किं कार्यं मम किं प्रयोजनम् न किमपीत्यर्थ- । अग्रास्मिन् स्थानेश्कीर्तेर्दुर्यशसः संविभागस्यांड शस्य पात्रतां भाज्ञनत्वं गमिष्यामि प्राप्स्यामि इति चेऽचिन्तयद्विचारितवान् । सोमदेवेन पापरतेन सहाऽत्रस्थितौ तेन सहाडहमपि दुर्यशसशस्याऽऽश्रयो भविष्यामीति च विचारयामासेति भावः ।।