( २७२ )
पिशाच इव सर्वेषां छलान्वेषणतत्परः । |
अन्वयः
असौ पिशाचः इव सर्वेषां छलान्वेषणतत्परः ( सन् )मदमूर्च्छया किम् अपि कर्तव्यं न विवेद ।
व्याख्या
असौ सोमदेवः पिशाच इव राक्षस इव सर्वेषां जनानां छलस्य कपटव्यवहारस्याऽन्वेषणे संपादने तत्परः परायणस्सन् मदेन राजमदेन या मूर्च्छा विवेकाविवेक-शून्यत्वं तया किमपि किञ्चिदपि कर्तव्यं राज्यभारवहनकर्तव्यं न विवेद न जानाति स्म । यथा पिशाचः सर्वान् जनान् दुःखयितुं तत्परो भवति तथैवाऽयं राजाऽपि मद्देन सर्वा प्रजाः कपटव्यवहारेण पीडयन् स्वकर्तव्यं न पालयति स्मेति भावः । उपमालङ्कारः ।
भाषा
वह राजा सोमदेव राजमद की बेहोशी में विवेक शून्य हो कर राक्षस के समान सब को कष्ट देने में तत्पर अर्थात् सबके साथ कपट व्यवहार करने में तत्पर होने से अपने कर्तव्य पथ से च्युत हो गया ।
व्यरज्यत समस्तोऽपि लोमैकवसतेर्जनः । |
अन्वयः
समस्तः अपि जनः लोमैकयसतेः (तस्मात्) व्यरज्यत । हि भूपानां । त्यागः विश्वसंवननौषधं नाम (अस्ति)
व्याख्या
समस्तोऽखिलोऽपि जनः प्रजाजनः लोभस्याऽत्यागभस्यैका वसतिः स्थानं तस्मादत्यन्तलोभसंपन्नात् सोमदेवात् व्यरज्यत विरक्तो जातः स्नेहराहित्यं संप्राप्त इति भाव: । हि यस्मात्कारणात् भूपानां” नृपाणां त्यागो लोभरहितदानादिकं विश्वस्य संसारस्य संवननस्य वशीकरणस्य ‘यशक्रिया संवननं मूलकर्म तु कार्मणम् इत्यमरः । ओषधं भेषजं नामाऽस्ति । अत्रार्थान्तरन्यासालङ्कारः ।