पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२८८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २७१ )

अन्वयः

 दैवोपहत (सः)तेजोनिधीनां रत्नानां संभार धारयन् अपि तमःस्तोमैः तिरोहितः बभूव ।

व्याख्या

 दैवेन विधिना 'दैव दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधि’ इत्यमरः । भाग्येनोऽपहृतो निरस्तो दुर्भाग्यक वलितं इत्यर्थ: । स सोमदेवस्तेजसां प्रभाणा निश्चय आकरास्तेया प्रभाकराणा रत्नानां मणीनां सभार समूहो धारयन् यहन्नपि तमसान्धकाराणामज्ञानानां स्तोमैस्समहैस्तिरोहित प्रच्छन्नो बभूवाऽभूत् । रत्नरूपस्य प्रकाशकारणस्य विद्यमानत्वेऽपि प्रकाशाभावस्य तमसो वर्णनाद्विशे द्योक्तिरलङ्कर । ‘विशेषोक्तिरखण्डेषु कारेणषु फलावच' ।

भाषा

 दुर्भाग्य से कवलित वह राजा तेजस्वी, व प्रकाश देने वाले रत्नसमूहो को धारण करते हुए भी अन्धकार से (अज्ञान से) आवृत हो गया।

उपरि प्रतिबन्धेन ध्यात्वेव नमतोऽखिलान् ।
अधोगमनमेवासौ विह्वलो “ बह्वमन्यत ॥१०८॥

अन्वयः

 असौ उपरि प्रतिबन्धेन विह्वलः (सन् ) आखिलान् नमतः ध्यात्वा इव अधोमनम् एव बहु अमन्यत ।

व्याख्या

 असौ सोमदेव उपरि ऊर्ध्वं प्रतिबन्धेन प्रतिरोधेन गन्तुमक्षमत्वेनाऽखिलान् सकलान् जनान् नमतो नतिं कुर्वतोऽधोगच्छतो या ध्यात्वेव विचार्येवाऽधोगमनमघपतनमेव बहु नितातोपयोग्धमन्यत विज्ञातवान् । दैवहतस्य तस्योन्नोतिकरणमसम्भवमिति स्वपुरत सकलान् जनान् प्रणतान् दृष्ट्वा सोऽप्यथ पतनमेवोपयोगीति निर्धारितवानिति भाव । उत्प्रेक्षालङ्कर ।

भाषा

 यह राणा उन्नति के मार्ग पर आनद न हो सकने वे फारण घबडा र राबछोगो को न लुक र नमस्कार धरते हुए देख कर मानो यह भी सुवने कोअर्थात् अघ” पतन को ही उपयोगी समझन लगा ।