(२६५)
अन्वयः
तस्य नरेन्दश्रीः मदिरा इव मदकारणम् अभूत् । यत् (सः) परि भ्रष्टम् अशेषं यशोंशुकं न विवेद ।
व्याख्या
तस्य सोमदेवस्य नरेन्द्रश्री राजलक्ष्मीर्मदिरेव मद्यमिव मदकारणमविवेक- हेतुरभूत् । यद्यस्मात्कारणात् स सोमदेव परिभ्रष्ट गलितमशेषमखिल यश. कीर्तिरेवांशुक वस्त्र न विवेद न ज्ञातवान् । यथा कश्चिन्मदोन्मत्तो मदान्धत्वात् स्वशरीरात् गलित वस्त्र न जानाति तथैवाऽप सोमदेवोऽविवेकित्वादखिल यशो विनष्टमिति न जानाति स्मेति भाव ।।
भाषा
सोमदेव की राजश्री ही मदिरा के समान उसे मदोन्मत्त बनाने में कारण हुई। इसीसे उसने पूर्णतया नष्ट होते हुए यश रूपी वस्त्र को नहीं जाना । अर्थात् जिस प्रकार किसी शराबी वा शरीर पर का पूरा कपडा गिर जाता है। तो भी उसे वह नशे में नहीं जान पाता । उसी प्रकार राजलक्ष्मी के मद में चूर अविवेकी सोमदेव को सम्पूर्ण कीर्ति नष्ट हो जाने का पता ही नही चला।
|
अन्वयः
एषः मङ्गल्यतूर्यध्वनिभिः बाधिर्यम् आगतः इव महात्मनां वचनानि ईषद् अपि न अश्रौषीत् ।
व्याख्या
एष सोमदेवो मङ्गल्य माङ्गलिक तूर्य वाद्यविशेष तस्य ध्वनिभिर्नादैबाधिर्य बधिरतामागत प्राप्त इय महात्मनां कुलवृद्धाना महानुभावानां वचनानि सद्वाक्यानीषदपि मनागपि नाऽश्रौषीत् नाऽऽकर्णितवान् । राजलक्ष्म्या मदोन्मत्तो माङ्गलिकवाद्यविशेषनादेन बधिरतामिवाऽऽपन्न सोमदेव श्रोत्रेन्द्रियाभावात् महानुभावैः समुपदिष्टानि वाक्यानि नाऽश्रुणोदिति भाव । उत्प्रेक्षालङ्कारः।