पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(२६३)

व्याख्या

  क्रमात् क्रमशो नास्ति दुःख ययोस्तौ ताभ्या दुःखरहिताभ्या ताभ्यां सोमदेवविक्रमाङ्कदेवाभ्यां दैतवेन कपटेन 'कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे' इत्यमरः । बाह्या बहिर्भूतास्ताभिनिष्कपटाभिरन्योन्यस्य परस्परस्य स्नेहवृत्तिभिः प्रेमार्द्रव्यवहारैः केऽपि कियन्तोऽपि वासरा दिवसा अत्यवाह्यन्त यापिता. ।

भाषा

  धीरे धीरे दु ख से मुक्त दोनो भाइयो ने परस्पर कपट रहित, प्रेम भरे व्यवहारो में कुछ दिन बिताये ।


ज्येष्ठं गुणैर्गरिष्ठोऽपि पितुस्तुल्यममंस्त सः ।
महात्मनाममार्गेण न भवन्ति प्रवृत्तयः ॥१५॥

अन्वयः

  सः गुणैः गरिष्ठः अपि ज्येष्ठं पितुः तुल्यम् अमंस्त । महात्मनाम् अमार्गेण प्रवृत्तयः न भवन्ति ।

व्याख्या

  स विक्रमाङ्कदेवो गुणैश्शौर्यदयादाक्षिण्यादिनृपोचितगुणैर्गरिष्ठोऽपि गुरुतमोऽपि श्रेष्ठोऽपीतिभाव । ज्येष्ठमग्रज सोमदेव पितुराहवमल्लदेवस्य तुर्य सत्मानेन समानममस्त विज्ञातवान् । यतो महात्मना । मनस्विना । महानुभावानाममार्गेणाऽ मुचिताध्यता प्रवृत्तयोऽध्यवसाया न भवन्ति । 'ज्येष्ठभ्राता पितु सम' इति- स्मरणात् । अत्राऽर्थान्तरन्यासलङ्कार. ।

भाषा

  शौर्यादिगुणों में श्रेष्ठ होने पर भी वित्रमाङ्कदेव अपने बड़े भाई सोमदेव को पिता आहवमल्लदेव के समान ही आदरपूर्वक मानता था । बडे लोगो के व्यवहार अनुचित तरीके से नहीं होते ।


स दिग्वलयमालोड्य वस्तुजातमुपार्जितम् ।
तस्मै समर्पयामास नास्ति लोभो यशस्विनाम् ॥३६॥