पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(२५९)


भाषा

  हाय ! अत्यन्त कोमल हृदय, मेरे बड़े भाई सोमदेव ने इस शो वज्राग्नि को मेरे वहाँ न रहने पर कैसे सहन किया होगा । अर्थात् दु प्रियवस्तु के पास रहने से दुख का वेग कम हो जाता है । मै उसका अ प्रिय हुँ । अतः मेरी अनुपस्थिति में उसने इस दुख को कैसे सहन किया होगा ।


साक्रन्दमिति चान्यच्च स संचिन्त्य पुनः पुनः ।
शनैर्विवेकदीपेन पन्थानं प्रत्यपद्यत ॥८७

अन्वयः

  सः इति अन्यत् च पुनः पुनः साक्रन्दं संचिन्त्य विवेकदीपेन शनैः। पन्थानं प्रतिपद्यत

व्याख्या

  स विक्रमाङ्कदेब इति च पूर्वोक्तं विषयञ्चाऽन्यच्च किञ्चिन्मनोगतन्च पुनः पुनर्भूयोभूयस्साक्रन्दं सविलापं ययास्यातया संचिन्त्य विचार्य विवेक एव सदस• द्विचार एव दीपः प्रकाशकारकस्तेन सदसद्विचारप्रकाशेन शनैः क्रमशः पन्थानं मार्ग स्वस्यतां प्रत्यपद्यत प्राप्तवान् । विवेकप्रकाशेन शोकतमो निरस्य शनैः ययाकथञ्चित् स्वस्थो बभूवेति भावः !

भाषा

  वह विक्रमाङ्कदेव पूर्वोक्त तथा अन्य भी कुछ मानसिक बातो का रोते हुए बार बार विचार कर घोरे धीरे विवेक रूपी दीप के प्रकाश से (शोक रूपी अन्धकार को दूर कर) रास्ते पर आया । अर्थात् कुछ स्वस्थ हुआ ।


यथाविधि विधायाथ संस्थितस्य पितुः क्रियाम् ।
अग्रजालोकनोत्कण्ठा-प्रेरितः सोऽचलत्पुरः ।।८८॥

अन्वयः

  अथ सः संस्थितस्य पितुः क्रियां यथाविधि विधाय अग्रजालोकनो कण्ठाप्रेरितः (सन्) पुरः अचलत् ।