पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २५४ )


 विनाशस्तस्य सन्तापो पत्यभावजन्यपरितापोऽन्यत्र कमलेभ्योऽन्यस्थाने दुस्सहो दुःखेन सोढुं शक्यः । कमलानां संयोग एव विरहावसरे वियोगाघिसन्तापं दुस्सहो शरीरे शैत्यमपादयतीत्यतः पुनस्त्वया पूर्वं निवासस्थानं कमलमेवाऽऽश्रयणीयमिति भाव. । अत्रोतरार्धेन पूर्वोक्तकमलसमाश्रयसमर्थनदर्थान्तरन्यासः ।

भाषा

 हे लक्ष्मी ! अब कमलो को ही फिर से अपना निवासस्थान बना । स्वामी के नाश का यह दु ख कमलो के अतिरिक्त अन्य स्थान में रह कर सहन करना अत्यन्त कठिन है । अर्थात् पति विरह जनित सन्ताप को शान्त करने के लिये कमल जनित शैत्य ही लाभदायक हो सकता है ।

श्लाघ्यं शेषफणाचक्र-विटङ्कात्पतनं भुवः ।
अथवा स्नेहपाण्डित्यं मृत्पिण्डस्येदृशं कुतः ॥८०॥

अन्वय:

 भुवः शेषफणाचक्रविटङ्कात् पतनं श्लाघ्यम् । अथवा मृत्पिण्डस्य ईदृशं स्नेहपाण्डित्यं कुतः (सम्भवति) ।

व्याख्या

 भुवः पृथिव्याः पतिविनाषे शेषस्याऽनन्तसर्पराजस्य ‘शेषोऽनन्तो वासुकिस्तु इत्यमरः । फणानां स्फटानां ‘स्फटायां तु फणा द्वयोःइत्यमरः । चक्रं समूह एव विटङ्कमुच्चशिखरं ‘कपोतपालिकायां तु विटङ्कं पुंनपुंसकम्’ इत्यमरः । तस्मात्पतनं पतनेन मरणं श्लाघ्यं वरम् । अयवा पक्षान्तरे पिण्डस्य मृतिका शरोरस्य ‘पिण्डो बोले बले सान्द्रे बेहाणारेकदेशयोः । देहमात्रे निवापे च गोलं सिल्लकयोरपि' इति मेदिनी । ईदृशं विशिष्टं स्नेहः प्रेम तस्य पाण्डित्यं विचार प्राचुर्यं कुतः कस्माद्धेतोः सम्भवति नैव स्यादचेतनत्वादिति भावः ।

भाषा

पृथ्वी को तो पृथ्वी पति के मर जाने पर शेष राज अनन्त के फनो के समूह रूपी उच्चशिखर से गिर कर मर जाना ही उचित है । परन्तु मिट्टो का शरीर रखने वाली पृथ्वी में इस प्रकार का प्रेम वा सद्विचार कैसे सम्भव है । अर्थात् अचेतन पृथ्वी में इस प्रकार का उच्च प्रेमभाव उत्पन्न होना ही असम्भव है ।