पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २५३ )

तद्बाहुदण्डविश्लेषे किं पौरुष करिष्यसि ।
प्रतिपालकवैधुर्यात् प्रताप परितप्यसे ॥७८॥

अन्वय:

हे पौरूष ! तद्बाहुदण्डविश्लेषे कि करिष्यसि । हे प्रताप प्रतिपालकवैधुर्यात् परितप्यसे ।

व्याख्या

 हे पौरुष ! हे पुरुषार्थ ! "पुभावे तत्क्रियाया च पौरुषम्' इत्यमरः । तस्याऽऽहवमल्लदेवनृपस्य बाहुदण्डो भुजदण्डस्तस्य विश्लेषे वियोगे किं करिष्यसि न किमपीत्यर्थ । तद्बाहुदण्डाभावे पुरुषार्थस्य सत्तैव नास्तीति भाव । हे प्रताप ! हे तेज । ‘स प्रताप प्रभावश्च यत्तेज कोपदण्डजम् इत्यमरः प्रतिपालकस्य सरक्षकस्याऽऽश्रयदातुरित्यर्थ । राज्ञ अहवमल्लदेवस्य बंधुर्या द्राहित्यात् परितप्यसे दुःखजन्यसताप प्राप्तोऽसि । आहवमल्लदेवे नृपे गते सति । पौरुषप्रतापयोराश्रयाभावात्परिताप इति भाव• । अत्र विनोक्तिनामाऽलङ्कार ।

भाषा

 हे पुरुषार्थ ! आहवमल्लदेव राजा के वियोग में अब तू क्या करेगा । हे प्रताप ( आश्रय के अभाव में तू दुखी हो रहा है। अर्थात् आहवमल्लदेव राजा के न रहने से पौरुष और प्रताप दोनो ही निराधार हो गये।

पद्मे पद्माकरानेव पुनः सद्मत्वमानय ।
अयं त्वया पतिभ्रंश-संतापोऽन्यत्र दुःसहः ॥७६॥

अन्वय:

 हे पद्मे ! पुनः पद्माकरान् एव सपद्मत्वम् आनय । त्वया अयं पति भ्रंशसंतापः अन्यत्र दुस्सहः ।

व्याख्या

 हे पद्मे । हे लक्ष्मि ! 'लक्ष्मी पद्मालया पद्मा कमला श्रीहरिप्रिया ' इत्यमर । पुन भूयोऽवि पद्मानां कमलानामाकरास्समूहास्तानेव सद्मत्व गृहत्व निवासस्थानत्वमानय प्रापय त्वया भवत्याऽयमनुभूयमान पत्यता ।