पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २५१ )

रहने से पृथ्वी का बोझ कम होकर, तुम्हारा भूमार कम होने से तुम्हे जो मिलता था यह अब उस राजा के मर जाने से तुम्हें प्राप्त न हो सकेगा शेष ! हे नागराज ! राजा आहवमल्लदेव के मर जाने से पृथ्वी का अधिक होकर उससे पीसे जाने के कष्ट से तुम्हारा मास सूख कर हड्डियाँ अवशिष्ट रह जाएँगी ।

दिग्गजास्त्यजत स्वैरक्रीडाविहरणादरम् ।
संभूय भूयः सर्वेऽपि धारयन्तु धरामिमाम् ॥७५॥

अन्वय:

  हे दिग्गजाः स्वैरक्रीडाविहरणादरं त्यजत सर्वे अपि भूयः संभूय । इमां धरां धारयन्तु ।

व्याख्या

 हे दिग्गजाः ! हे दिक्कुञ्जराः ! स्वैरं स्वच्छन्दं यथास्यात्तथा यत्क्रीडासु विहरणं विहारार्थं संचलनं तस्मिन्नादरं स्नेहं त्यजत मुञ्चत । सर्वेऽपि भवन्तः स्सकला भूयः पुनरपि राज्ञ उत्पत्तिकालात्प्रागिव संभूय मिलित्वेमां धरां पृथ्वीं धारयन्तु वहन्तु । इदानीं युष्माक पृथ्वीभारवहनकर्मणि सहायको राजाऽहव- मल्लदेवो भूयं परित्यज्य परलोकं गत इति भावः ।


हे दिग्गजो ।राजा आहवमल्लदेव के रहने से पृथ्पी स्थिर थी इसलिये तुम लोग आनन्द से स्वच्छन्द क्रीडा में घूमते थे । किन्तु अब राजा आहव

मल्लदेव पृथ्वी छोड कर परलोक को सिधार गये है, इसलिये अपना स्वच्छन्द क्रीड़ा प्रेम छोडो और सब मिलकर इस पृथ्वी को सह्भालो । बाहुराहवमल्लस्य सुवर्णास्तम्भविभ्रमः पुरन्दधुरां धर्तुं धात्रा व्यवहितः कृतः ॥७६॥ अन्वय धात्रा सुवर्णस्तम्भविभ्रमः आहवमल्लस्य बाहु पुरन्दरधुरां धर्तुं व्यव- हितः कृतः ।