पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(२५०)


अन्वय:

 अथ अविश्रान्तबाष्पसन्तानदुर्दिनः असौ कियतीः अपि कालकलाः तथा स्थित्वा अचिन्तयत्।

व्याख्या

 अय पितृमरणदुर्घटनाश्रवणानन्तरमविश्रान्तं निरन्तरं बाष्यसंतानस्या श्रुधाराया दुदिनं वृष्टिर्यस्मिन्सः, असौ विक्रमाङ्कदेवः कियतोरपि काश्चिदपि कालकलाः समयकलाश्चिरकालपर्यन्तं तथा तेनैव प्रकारेण स्थित्वोपविश्याऽ चिन्तयत् चिन्तयामास ।

भाषा

बाद में लगातार आंसुओ की झडी बरसाने वाले विक्रमाङ्कदेव ने चिरकाल तक उसी दशा में रहने के बाद विचार किया ।

तवादिकूर्म कर्माणि निषेधन्ति सुखस्थितिम्
प्रयाहि शेष निष्पपादस्थिपञ्जरशेषताम् ।।७४॥

अन्वय:

 हे आदिकूर्म कर्माणि तव सुस्थितिं निषेधन्ति । हे शेष निष्पेषात् अस्थिपञ्जरशेषतां प्रयाहि।

व्याख्या

 हे आदिकर्म ! हे कच्छपावतार ! कर्मापि भाग्यानि तव सुखस्थितिं सुखेन स्थितिमाहवमल्लकर्तृकभूभारहरणस्य निरन्तरं जायमानत्वादल्पभू भारधारणेन भुवस्तले सुखपूर्वकवासं निषेधन्ति न मन्यन्ते । हे शेष । नागराज

भाषा

 हे आदिकूर्म ! हे विष्णु के अवतार रूप । दुर्भाग्य से तुम को अब चैन से रहने को नहीं मिल सकता । क्योकि राजा । आहवमल्लदेव के