पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २४९ )

तस्य पितृमारणरूपात्याचाराय धर्मपरायणानां मृत्यव इत्यर्थः । गृहीत' स्वीकृतो नियमो निश्चयो येन तं यम कृतान्तं वंशे सूर्यवंशे कण्टकं कुलकलङ्कं मन्यतेस्म ज्ञातवान् ।

भाषा

 राजकुमार विक्रमाङ्कदेव के वैसे रोने से यमराज के पिता सूर्य भी, उसने पित के सदृश धर्मात्माओ । को जान से मार डालने का दुराचार का काम करने के नियमी, अपने पुत्र यमराज को सूर्यवंश का कलङ्क समझने लगे ।

एतद्दु:खानभिज्ञेभ्यो दिनेभ्यः स्पृहयन्मुहुः।
दिवसोऽपि यथात्मानं मन्दभाग्यममन्यत ॥७२॥

अन्वय:

 यथा एतद्दुखानभिज्ञेभ्यः दिनेभ्यः मुहुः स्पृहयन् दिवसः अपि आत्मानं मन्दभाग्यम् अमन्यत ।

व्याख्या

 यथेति पदं पूर्वोक्तस्य तथा रुरोदेति वाक्यस्य तया शब्देनाऽन्वेति । स तथा रुरोद पथा । येन कारणेनैतद्दुखान्याऽऽहवमल्लमृत्युजन्यराजकुमारविलापादि दुःखानि तेषामनभिज्ञा अपरिचितास्तेभ्यो दिनेभ्यो दिवसेभ्यो मुहूः पुनःपुनः। स्पृहयन्नभिलषन् दिवसोऽपि राजकुमारकृतविलाषदिवसोऽप्यात्मानं स्व मन्दभाग्यं हतभाग्यममन्यत मेने । अन्यदिवसा मत्तो भाग्यवन्तो यैरिदं महद्दुखं नाऽनु भूतमिति चिन्तयति स्मेति भावः ।

भाषा

 राजकुमार विक्रमाङ्कदेव के वैसे रोने से वह दिन भी, ऐसे क्लेश से अनभिज्ञ अन्य दिवस के समान ही हम होते तो अच्छा था, ऐसी अभिलाषा करते हुए अपने को हतभाग्य समझने लगा ।

“विशेषकम्” त्रिभिः पद्यैर्यत्र वाक्यसमाप्तिर्भवति तद्विशेषकं संदानितकं तिलक वा ।

अथ कालकलाः स्थित्वा कियतीरप्यसौ तथा ।
अचिन्तयदविश्रान्तबाष्पसंतानदुर्दिनः ॥७३॥