पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २४८ )

अन्वय:

 इति उक्त्वा तत्र विरते (सति) कृतनेत्राम्बुदुर्दिनः पार्श्वस्थैः हृतासिधेनुः साक्रन्दगलकन्दलः सः स्वभावात् आर्द्धभावेन तादृशः पितृस्नेहात् च भूपृष्ठलुठितेन वपुषा तथा रुरोद ।

व्याख्या

 इति पूर्वोवत्मुक्तत्वा कथयित्या तत्र दूते विरते विश्राममुपगतवति सति कृतं सम्पादितं नेत्राम्बुभिर्नयननिर्गताश्रुजलैर्दुर्दिनं मेधावृतदिवसो येन सः 'मेघच्छन्नेऽन्हि दुर्दिनम्' इत्यमरः । अश्रुवृष्टिं कुर्वन्नित्यर्थः । पार्श्वे तिष्ठन्तीतो पार्श्वस्यास्तैः समीपचरैर्जंनै हुत गृहीता असिधेनुश्छुरिका यस्य स ‘छुरिका चासिधेनुका इत्यमरः । आक्रन्देनाऽऽर्तनादेन सहितो गल एव कन्दलो नालो यस्य राः राजकुमारः स्वभावात्प्रकृत्यैवाऽऽर्द्भावेन स्निग्धभावेन ‘भावः सतास्वभावा भिप्रायचेष्टात्मजन्मसु' इत्यमरः । तादृशस्तथाभूतादनिर्वचनीयपितृस्नेहाच्च पितृप्रेम्णश्च भुवः पृष्ठे भूपृष्ठे भूमितले लुठितमितस्ततः परावर्तितं तेन वपुषा शरीरेण 'गात्रं वपु संहननं शरीरं वर्त्म विग्रहःइत्यमरः । , तथैवं वक्ष्यमाण- प्रकारेण रुरोद रोदनं कृतवान् ।

भाषा

 इस प्रकार कह कर दूत के चुप होने पर अपने आंखो के आँसुओ से माघ के ऐसी वृष्टि करने वाला ,पास के लोगो ने कही दुख से वह अपना प्राणान्त न करले इस भय से जिसकी छूरी छीन ली है ऐस पुकाफाड कर' रोने वाला, यह राजकुमार स्वभाव से ही कोमल हृदय होने से तथा वेसे पितृस्नेह से जमीन पर लोट २ कर इस प्रकार बिलाप करने लगा ।

एवंविधदुराचार-गृहीतनियमं यमम् ।
मन्यते स्म यथा वंशे तिग्मांशुरपि कण्टकम् ॥७१॥

 यथा तिग्मांशुः अपि एवंविधदुराचारगृहीतनियमं यमं वंशे फण्टकं मन्यते स्म ।

व्याख्या

 स तथा रुरोवेति पूर्वपद्योवतेन तथाशब्देन सहाऽत्रस्यो यथा शब्दः साकाङ्क्षः । स सथा रुरोद यथा येन चरणेन तिग्मांशुः सूर्यो यमपिताऽप्येवयियदुराचाराय