पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २४० )

पुरे शिवलोके कैलासे समारोहणं गमनमुत्सव आनन्दोस्ति । कृतकृत्यस्य मेऽधुना शिवलोकप्राप्ति, प्रभुतप्रमोदावहेति भाव ।

भाषा

 इस प्रकार सांसारिक समस्त कार्यो को सफलता पूर्वक सम्पादन् करने वाले और शंकर के भक्त शिरोमणि, मेरा, पार्वतीपति महादेव की कैलास नगरी में जाना, उत्सव है ।

आत्मानमुन्मदद्वाःस्थ--गलहस्तितसेवकाः ।
अगम्यमपि दैवस्य विदन्ति हतपार्थिवाः ॥ ५६ ॥

अन्वयः

 उन्मदद्वा:गलहस्तितसेवकाः इतपार्थिवाः आत्मानं दैवस्य अगम्यम अपि विदन्ति ।

व्याख्या

 द्वारि तिष्ठन्तीति द्वाःस्था द्वारपाला उन्मदा मदोन्मत्ताश्च ते द्वास्थाशोन्मदद्वस्थास्सैर्गलहस्तिता गले हस्तं दत्वा दूर प्रापितासेवका कराजमक्ता यैस्तेहता अज्ञानेन हताः सम्यग्ज्ञानपराङमुखाः पार्थिवा राजान आत्मानं स्वं देवस्य विधेः पविधिविधाने दैवे च' इत्यमरः । अगम्यमप्यविषयमपि विदन्ति जानन्ति ।अज्ञानिनो राजानो मदेन दैवमपि तिरस्कुर्वन्तीति भावः ।

भाषा

 मदोन्मत्त दरबानो द्वारा गर्दनिया देकर राजभक्त लोगो को हटा देने वाले अज्ञानी राजा लोग अपने को दैव से भी अगम्य समझने लगते हैं । अर्थात् दुरभिमान से देव भी उनका कुछ बिगड नही सकता ऐसा समझने लगते हैं ।

मम शुध्दे कुले जन्म चालूक्यद्वसुधाधृताम् ।
कियत्पोऽपि गताः श्रोत्र-मैत्रीं शास्रार्थविप्रुप: ॥ ५७॥

अन्वयः

 चालुक्यवसुधाभुतां शुद्धे कुले मम जन्म कियत्यः शास्त्रार्थविप्रुप: अपिश्रोत्रमैत्रीं गताः ।