पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २३९ )


 धनुष चला कर सब राजाओं को जोत कर लक्ष्मी प्राप्त करने वाला श्री के समान अत्यधिक पराक्रमी, विक्रम चिह्न वाला अर्थात् विक्रमाङ्कदेव पुत्र पाया है ।

तेनैव युवराजत्वं समारोप्य यशस्विना।
एष साम्राज्यभारस्य चोढा सोमेश्वरः कुतः ॥५४॥

अन्वय:

 यशस्विना तेन एव एपः सोमेश्वरः युयराजत्वं समारोप्य । साम्रा भारस्य वोढा कृतः ।

व्याख्या

 यश: कीतिर्विद्यते यस्य स यशस्यं तेन यशस्विना कोतमत तेन विक्रमाङ्क देवेन एषोऽयं सोमेश्वरो मम ज्येष्ठपुत्रः सोमदेवो युवराजत्व युवराजपदः समारोप्य प्रतिष्ठाप्य साम्राज्यस्य भारस्तस्य सकलराज्यकायंभारस्य वोढा धारयिता कृतः ।

भाषा

 उस यशस्वी विक्रमादित्य ने ही मेरे ज्येष्ठ पुत्र सोमदेव को युवराज पद पर बैठा कर सम्पूर्ण राज्य कार्यों का भार उसको सौंप दिया ।

इति मे कृतकृत्यस्य माहेश्वरशिरोमणेः।
गिरिजानाथनगरे समारोहणमुत्सवः ॥५५

अन्वयः

 इति कृतकृत्यस्य माहेश्वरशिरोमणेः मे गिरिजानाथनगरे समारोहणम् उत्सवः (अस्ति ) ।

व्याख्या

 इतीयं कृतानि साधितानि कृत्यानि सर्वकार्याणि येन स तस्य कृतकृत्यस्य सम्पादितासांसारिकसकलकृत्यस्य महेश्वरस्य शिवस्येमे इति महेश्वराः शङ्कर भक्तास्तेषां शिरोमणिमूर्धन्यस्तस्य मे मम गिरिजायाः पार्वत्या नाथस्य शिवस्य