पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २३४ )

भाषा

 राजा आहवमल्ल देव ने पाण्ड्राजा को निस्तेज करने वाले चोलराजा को घबडहट में डालनेवाले वाले और सीलोन के राजा को परास्त करने वाले तुम्हारे विजय को सुन कर सुखमय अवस्था का अनुभव किया । अर्थात् राजा को अत्यन्त हर्ष हुआ ।

अकाण्डे विधि चाण्डालस्तस्मै दाहज्वरं ददौ ।
न कैश्चिदपि लभ्यन्ते निष्कम्पाः सुखसंपदः ॥४६॥

अन्वयः

 अकाण्डे विधिचाण्डालः तस्मै दाहज्वरं ददौ । कैश्चित् अपि निष्कम्पाः सुखसम्पदः न लभ्यन्ते ।

व्याख्या

 अकाण्डेऽनवसरे विधिब्रह्मैव चाण्डालो दुष्टकार्यकर्ता तस्मै राज्ञे दाहज्वरं ज्वरविशेषं महासंतापकरं ज्वरमित्यर्थः । ददौ दत्तवान् । विधिवशादसमय एव स दाहज्वराक्रान्तोऽभूदित्यर्थः। कैश्चिदपि भाग्यवद्भिनिष्कम्पाः कम्पेन चाञ्चल्येन रहिता निष्कम्पा विघ्नरहिताः सुखसम्पदः सुखसम्पत्तयो न लभ्यन्ते न प्राप्यन्ते । पूर्वार्द्धस्योत्तरार्द्धेन समर्थनादर्थान्तरन्यालङ्कारः।

भाषा

 बेमौके ही चाण्डाल विधि ने राजा को दाहज्वर से पीडित कर दिया। कोई भी मनुष्य विघ्न रहित सुखसम्पत्ति को नही प्राप्त कर सकते ।

अपरिश्रान्तसन्तापश्चन्दनालेपनेन सः ।
त्वदङ्कपालोपैयुषमाचकाङ्क्ष पुनः पुनः ||४७||

२ वेगस्तीक्ष्णोऽतिसारश्च निद्राल्पत्व तथा वमि.। वण्ठोष्ठमुखनासाना पाक स्वेदश्च जायते ।। प्रलापो वक्त्रकटुता मूर्च्छादाहो मदस्तृद्या । पीतविण्मूत्रनेत्रत्व पैत्तिके भ्रम एव च ॥

 इति दाहज्वरलक्षणम् । (चक्रपाणिदत्तोक्तम्)