पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २३० )

भाषा

 अप्रिय बात कहने को जीभ प्रस्तुत नही है ऐसा समझ कर मानो जोर २ से सास भर कर अनिष्ट बात कहने वाले (दूत को राजपुत्र ने पूछा । यह ४२ वे श्लोक से सम्बन्धित है ।

निर्यद्भिरतिमात्रोष्णै-र्मुखनिश्वासवायुभिः ।
निवेदयन्तं दुर्वार्ता-वज्रानलमुपस्थितम् ॥३६


अन्वय:

 निर्यद्भिः अतिमात्रोष्णैः मुखनिश्वासवायुभिः उपस्थितं दुर्वार्तावज्रानलं निवेदयन्तम् (दूतं पप्रच्छेत्यन्वयः ।)

व्याख्या

 निर्यद्भिनिर्गच्छद्भिरतिमात्रोष्णैः प्रकामोष्णैर्मुखस्य वदनस्य निश्वासवा युभिः श्वसनपवनैरुपस्थितं विद्यमानं दुर्वार्ताऽशुभवृतान्त एव वज्राग्निः कुलिश वन्हिस्तं निवेदयन्तं प्रकटयन्तम् (दूतं पप्रच्छेति सम्बन्धः । ) मुखनिश्वासवायु- करणकदुर्वार्तारूपवज्राग्निप्रकटनक्रियाया दूते उत्प्रेक्षितत्वादुत्प्रेक्षा रूपकानु प्राणिता ।

भाषा


 विद्यमान दुर्वाता रूपी वज्राग्नि को अपने मुख से हाँपने में निकलने वाले अत्यन्त गरम २ दवारा रूपी वायु से प्रकट करने वाले (राजदूत को पूछा ।) अग्नि के ससर्ग से श्वासवायू का गरम हो जाना स्वाभाविक है ।

ककुभां भर्तृभक्तानां पृच्छन्तीनां नृपस्थितिम् ।
विद्रवन्तमिवाभान्तमत्यन्तत्वरितैः पदैः ॥४०॥

अन्वय:

 नृपस्थितिं पृच्छन्तीनां भर्तृभक्तानां ककुभाम् अत्यन्तत्वरितैः पदैः विद्यन्तम् इव आभान्तम् (तं पप्रच्छ ।

व्याख्या

 नृपस्थितिं पृच्छन्तीनां भर्तृभक्तानां ककुभाम् अत्यन्तत्वरितैः पदैः विद्रवन्तम् इव आभन्तम्(दूतंप्रपच्छ)।