पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २२८ )

अन्वयः

 यत् अवगाहितनिःशेषशास्त्रनिर्मलधी अपि असौ कुमारः अकारणम् अधीरतां प्राप्तः ।

व्याख्या

 यद्यस्मात् कारणादवगाहितानि विलोडितानि नि:शेषशास्त्राणि सकलापमा स्तैर्निर्मला विशदा धीर्बुद्धिर्यस्य स 'बुद्धिर्मनीषा धिषणा धी प्रज्ञा शेमुषी मति.' इत्यमरः । निर्मथितसकलशास्त्रतत्वतया विशदप्रज्ञोऽपि असौ कुमारो विक्रमाङ्कदेवोऽकारण कारणरहित यथा स्यात्तथाऽघोरता चाञ्चल्य प्राप्त । सचिन्तोभूदित्यर्थः । यदित्यनेन पूर्वश्लोकार्थं सम्बद्ध्यते ।}}

भाषा

 इस कारण से सम्पूर्ण शास्त्रो के अध्ययन से निर्मल बुद्धि वाला भी वह राजकुमार निष्कारण ही अधीर हो उठा।

सर्वस्वदानमालोच्य दुर्निमित्तप्रशान्तये ।
अप्रयाणमसौ चक्रे ततः कृष्णानदीतटे ।३६॥ ।

अन्वयः

  तत: असौ दुनिमित्तप्रशान्तये सर्वस्वदानम् आलोच्य कृष्णानदीतटे अप्रयाणं चक्रे ।

व्याख्या


 ततस्तदनन्तरमसौ प्रसिद्ध कुमारो दुर्निमित्तस्य वामाक्षिस्फुरणरूपटुश्शकुनस्य प्रशान्तये निवारणाय सर्वस्वस्य विजयापहृताना सकलवस्तूना दान पात्रेषु वितरणं समालोच्य निर्घार्य कृष्णानद्यास्तटे तीरेऽप्रयाणमवस्थान चक्रे । तत्रैव स्थितोऽभूदित्यर्थं ।

भाषा

 इसके अनन्तर वह (बॉई आंख का फडकना रूप) बुरे शकुन की शान्ति के लिये, विजय में प्राप्त सब वस्तुओं का दान कर देने का निश्चय कर, कृष्णा नदी वे तट पर रुक गया ।