पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २२७ )

व्याख्या

 अदृश्यैरदृष्टिगोचरैः कैश्चिदिवाऽनिर्दिष्टनामकैरिवाऽऽगत्य संप्राप्य चिन्तयाss ध्यानेन स्याच्चिन्तास्मृतिराध्यानम्' इत्यमरः । शून्यं चेतश्चिंतं यस्य तस्य विवेकरहितहृदयस्य चित्तं तु चेतो हृदयं स्वान्तं हन्मानसं मनः' इत्यमरः । तस्य विक्रमाङ्कदेवस्य कर्णे श्रोत्रे काऽपि काचित् विचित्राऽप्यमङ्गलवार्ताऽशुभत्तान्तो न्यषीयत स्थापिता कथितेत्यर्थः ।

भाषा

 प्रत्यक्ष पहिचान में न आने वाले लोगो के समान कुछ लोगो ने मानो आकर चिन्ता से शून्य हृदय उस राजपुत्र के कान में कोई अमङ्गल बात कही।

शुभाशुभानि वस्तूनि संमुखानि शरीरिणाम् ।
प्रतिबिम्बमिवायान्ति पूर्वमेवान्तरात्मनि ॥३४॥

अन्वयः

 संमुखानि शुभाशुभानि वस्तूनि शरीरिणाम् अन्तरात्मनि प्रतिबिम्बम् इव पूर्वम् एव आयान्ति ।

व्याख्या

 संमुखानि समुखमागतानि सन्निकटवर्तीतीत्यर्थः । शुभं मङ्गल्यमशुभमङ्गल्यं तानि मङ्गल्यामङ्गल्यानि वस्तूनि घटनाः शरीरिणां प्राणिनामन्तरात्मानि प्रति- बिम्बमिव प्रतिच्छायमिव प्रागेवाऽऽयान्ति पूर्वमेव समागच्छन्ति । भवितव्यतायाः परिज्ञानं प्राणिनामन्तः प्रयममेव सूचितम्भवतीति भावः ।

भाषा

 निकट भविष्य में होने वाली.शुभ. और अशुभ. घटनाएं, प्राणियों के. हृदय में प्रतिबिम्ब के समान पहिले ही प्रतिबिम्बत हो जाती हैं ।

अवगाहितनिःशेप-शास्त्रनिर्मलघीरपि ।
अकारणमसौ प्राप्तः कुमारो यदधीरताम् ।३५।