पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २२६ )


स विक्रमाङ्कदेवः परावृत्य निवृत्य कियत्यध्वन्यपि मार्गेऽपि स्थितस्सन् विजय प्रदेशात्परावृत्यस्वदेशमार्गे कियद्दूर समागतोऽपि सन्नकस्मादेवाऽतर्कितोपनत मरतैरुद्वेगस्य गम्यत्व पात्रत्वमगमत् प्राप्त ।

भाषा

 बाद में दिग्विजय का कार्य सम्पन्न कर लौटते हुए मार्गों में कुछ दूर भी आजाने पर, वह अकस्मात् अशन्ति का पात्र बन गया अर्थात् वह उद्विग्न हो उठा ।

स शङ्कातङ्कमासाद्य स्फुरणाद्वामचक्षुषः ।
श्रेयोऽस्तु तातपादानामिति सास्रमवोचत ॥३२॥

अन्वयः

 सः घासचक्षुषः स्फुरणात् शङ्कातङ्कम् आसाद्य तातपादानां श्रेयः अस्तु इति सास्त्रम् अवोचत् ।

व्याख्या

 स राजकुमारो वाम दक्षिणेतर चक्षुर्नयन तस्य वामनयनस्य स्फुरणाच्चलनात् ज्ञाय सन्देहस्याऽऽतङ्क भयमासाद्य प्राप्य तातपादांना पूज्यचरणांनाम् (मम पितु.) श्रेय कल्याणमस्त्विति वचोऽस्रेणाऽश्रुणा सहित यथास्यातथाऽवोचतोक्तवान् ।

भाषा

 बाई आंख के फड़कने से सन्देह से भयभीत होकर उसने आसूं बहाते हुए पिता जी का शुभ हो, ऐसा कहा ।

अदृस्यैःकैश्चिदागत्य सुन्येतसः।
तस्यामङ्गलवार्तेव कापि कर्णॅ न्यधीयत ॥३३॥

अन्वयः

 अदृश्यैः कैश्चित् इव आगत्य चिन्तया शून्यचेतसः तस्य कर्णे का अपि अमङ्गलवार्ता न्यधीयत ।