पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २२५ )



आक्रान्तरिपुचक्रेण ‘चक्रकोटपतेः परम् ।
लिखिताश्चित्रशालासु तेनामुच्यन्त दन्तिनः ॥३०॥

अन्वयः

आक्रान्तरिपुचक्रेण तेन चक्रकोटपतेः चित्रशालासु लिखितः दन्तिनः परम् अमुच्यन्त ।

व्याख्या

आक्रान्तं समाकान्त विजितमित्यर्थः । रिपुचक्रं शत्रुचक्रवालं येन तेन विजितारिसमूहेन तेन विक्रमाङ्कदेवेन चक्रकोटनामकस्थानस्य पतिः स्वामी तस्य चक्रकोटदेशाधिपस्य चित्राणां शालासु गृहेषु चित्रमन्दिरेषु लिखिताश्चित्रिता दन्तिनो गजाः परं केवलममुच्यन्त मुक्ताः । चक्रकोटपतेस्स्कला गजा स्वायत्तीकृता इत्यर्थः । अत्र केवलं चित्रलिखिता गजा एव स्यक्ता इत्युक्त्या सर्वाऽपि गजसेना स्वायत्तीकृतेति प्रतीत्याऽर्थापतिरलङ्कारः ।

भाषा


शत्रु समूह को जीतने वाले उस राजकुमार विक्रमाङ्कदेव ने चक्रकोट के राजा की चित्रशाला में चित्रित हाथियो को ही केवल छोड दिया अर्थात् उसके सब हाथी ले लिये ।

कृतकार्यः परावृत्य कियत्यप्यध्वनि स्थितः ।
अथ गम्यत्वमरतेरकस्मादेव सोऽगमत् ॥३१॥

अन्वयः

अथ कृतकार्यः सः परावृत्य कियति अध्वनि अपि स्थितः (सन्) अकस्मात् एव अरतेः गम्यत्वम् अगमत् ।

व्याख्या

अथ दिग्विजयानन्तर कृतं कार्यं दिग्विजयरूपकृत्य येन सम्पादितोद्देश्यः

१ वैगिंदेशस्योत्तरतश्च्क्रकोटनगरमासीत । एतत्प्रदेशे हस्तिनामधिवता 'आइने अकबरी' पुस्तकेनाऽपि समर्थ्यते ।

१५