पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २१५ )

अन्वयः

 तद्हन्तिपदसंघट्टत्रुटन्मौक्तिकशुक्तिकः अम्बुधिः भयोद्भ्रान्तहृदय स्फुटनभ्रमं चक्रे ।

व्याख्या

 तस्य विक्रमाङ्कदेवस्य दन्तिनो हस्तिन 'दन्ती दन्तावलो हस्ती द्विरवोऽनेकपो द्विप' इत्यमर:। तेषां पदानां चरणानां सघट्ट आमर्दस्तेन त्रुटन्ति स्फुटन्ति मौक्तिकानि मुक्ताफलनि यासु ता शुक्त्यो मुक्तास्फोटा ‘मुक्तास्फोटश्रियां शुक्ति' इत्यमरः यस्मिन् सोऽम्बुधि सागरो भयेन ग्रसेनोद्भ्रान्त विह्वलं यद्द्रष्यं तस्य स्फुटन विच्छेदस्तस्य भ्रम भ्रान्ति चक्रे। शुक्तिस्फोटजनित- शब्देन समुद्रस्य ह्रदयं संफुटति किमिति प्रेक्षकाणा भ्रान्तिजतिति भाव: । अत्र भ्रान्तिमानलङ्कार:

भाषा

 उसके हाथियो वे पाव के नीचे दब कर टूटने वाली मोतियो की सोपे से अर्थात् उनके शब्दो से, प्रक्षको को, भय से विह्वल समुद्र का हृदय ही तो नही फट रहा है, ऐसा भ्रम हुआ।

अन्विष्यन्मरणोपायं दुःखात्तत्सैन्यलुण्ठितः ।
कालकूटं हरग्रस्तं शुशोच पयसां निधिः ॥१॥

अन्वयः

 तत्सैन्यलुण्टितः पयसा निधिः दुःखात् मरणोपायम् अन्विष्यन् । हस्तग्रस्तं कालकूटं शुशोच ।

व्याख्या

 तस्य विक्रमाङ्कदेवस्य संन्यैश्चभूमिभृग्यः स्वप्ननाशहरणंबदित पयसां जलानां निधि समुद्रो दुखाञ्चमूसलुण्ठनजन्यवलेशान्मरणस्य म्रुत्योस्यायं मलमविष्यन् ध्यायन् हरेण

(शयेन प्रस्त स्वगले स्थापितं कालकूटं नाम

पूर्वम् समुद्रे स्थितमुप विषं क्षुशोच सस्मार । मरणस्य सरलोपायं कन्चिदमन्यमानं कालकूटस्यैव तादृशं सामर्थ्यं निश्चिन्यानस्तस्य सररोशयमन्त्री च इग़म्बं