पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(२१७ )

व्याख्या

तेन विक्रमाङ्कदेवेन केरलस्य केरलदेशस्य भूपाल राजानस्तेषां कीलालेन रूधिरेण ‘शोणितेऽम्भसि कीलालम्' इत्यमरः । कलुषीकृतो मलिनीकृ- तोऽपवित्रकृत इत्यर्थः । पयोनिधिस्समुद्रोऽगस्त्यमुनेः कुभ्भजमुनेस्संत्रासमाच मनत्रयेणैव सर्वसमुद्रजलरिक्तीकरणरूपं भयमत्याज्यत तद्भयान्निवृतमकारयत । रक्तमिश्रितमपवित्रं समुद्रजलं कुम्भयोनि कदापि न । पास्यतीति धिया निर्भयत्वमिति भावः ।

भाषा

उसने केरलदेश के राजाओं को मारकर उनके रक्त से समुद्रजल को मिश्रित कर अतएव अपवित्र कर समुद्र को अगस्त्य मुनि के भय से छुड़ा दिया । अथात् अगस्त्य मुनि अब रक्त मिश्रित अपवित्र जल को 'कदापि न पीएंगे इसलिये समुद्र को अब उनका भय न रहा ।

उदरालोडनोद्भ्रान्त-दन्तसंक्रान्तपन्नगैः।
पाथोधेरन्त्रमालेव तद्दन्तिभिरकृष्यत ॥१६॥

अन्वयः

उदरालोडनोद्भ्रान्तदन्तसंक्रान्तपन्नगैः तद्दन्तिभिः पाथोवेः अन्त्रमाला इव अकृष्यत ।

व्याख्या

उदरस्य समुद्रकुक्षेरालोडनान्मन्यनदुद्भ्रान्ता भयत्रस्ता दन्तेषु रदनेषु संक्रान्ताः संलग्नाः पन्नगाः सर्पा येषा तैस्तस्य विक्रमाङ्कदेवस्य दतिभिः करिभिः पायोधेः पयोधेरन्त्रमाला इव पुरीतच्छ्रेणिरिव ‘अन्त्रं पुरीतत्' इत्यमरः । आन्त्रमा लेवेत्यर्थः। अकृष्यताऽकृष्टा । अत्र दन्ते उद्भ्रान्तसंलग्नसर्पेष्वन्त्रमालाया उत्प्रेक्षणात्स्वरूपोत्प्रेक्षालङ्कारः

केरलदेशे भारतस्य दक्षिणपश्चिमकोणे विद्यमान 'झावकोर' सहित न्यभूमिमण्डलात्मक आसोत्