पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २१० )


स्मिन् शीतोपचारस्य सन्तापनिवारणपूर्वकशीतानयनस्य साम्राज्यं वैशिष्टयं भेजुः सिषेविरे । समुद्रे चन्वनजलासितानां नदीनां समागमात् समुद्रे शैत्यं जातं वडयानलसन्तापश्च निवारित इति भावः ।

भाषा


 बडवानल से’तपे समुद्र में चन्दन के रस से सुवासित, मलयाचल की नदिया शीतोपचार का काम करने लगी ।

सखीव निखिलैस्तस्य सेनासीमन्तिनीजनैः ।
प्रीत्या मलयवायूनां जन्मभूमिरदृश्यत ।।७||

अन्वयः

 तस्य निखिलैः सेनासीमन्तिनीजनैः प्रीत्या सखी इव मलयवायूनां जन्मभूमिः अदृश्यत ।


व्याख्या

 तस्य विक्रमाङ्कदेवस्य निखिलैस्समस्तैः सेनायां सेनया सह समागताः । साम्नतिभ्योडङ्गनास्तासां जनत्समूहुस्तै ' प्रीत्या प्रेम्णा सखीव प्रेयसीव मलयवायूनां दक्षिणानिलाना जम्मभूमिर्मलयपर्वतोऽदृश्यत परिवीक्षिता । संयोगावस्थायां सुखप्रदानां दक्षिणानिलानां जन्मभूमिरङ्गनाभि सखीव प्रीत्या वृद्धेति भावः ।


भाषा

 उसकी सेना मेंकी अङ्गनाओ ने दक्षिणानिल की जन्म भूमि मलयाचल को (सयोगावस्था में दक्षिणानिल के सुखद होने के कारण) सखी के समान प्रेम से देखा ।

मलयेन तदीयस्त्री सुरभिश्वसितानिलैः ।
गुहाश्चन्दनवायूनां बीजार्थमिव पूरिताः ॥८॥

अन्वयः

 मलयेन तदीयस्त्रीसुरभिश्वसितानिलैः गुहाः चन्दनवायूनां बीजार्थं पूरिताः इव ।