पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २०७ )


भी उस पद पर स्थित, उस सत्य शूर राज पुत्र विक्रमाङ्कदेव ने कामदेव के समान समस्त दिशाओ को अर्थात् समस्त दिशाओ के राजाओं को तथा अन्य लोगो को जीत लिया अर्थात् अपने वश में कर लिया।

अभज्यन्त गजैस्तस्य लीलया मलयद्रुमाः।
समं केरलकान्तानां चूर्णकुन्तलवल्लिभिः ॥२॥

अन्वयः

 तस्य गजैः लीलया मलयद्रुमाः केरलकान्तानां चूर्णकुन्तवल्लिभिः समम् अभज्यन्त ।

व्याख्या

 तस्य विक्रमाङ्कदेवस्य गजैर्हस्तिभिर्लीलया क्रीडया मलयस्य मलयाद्रेर्द्रुमा वृक्षा. केरलकान्ताना केरलदेशीयरमणीना चूर्णकुन्तला अलका. ‘अलकाश्चूर्ण कुन्तला' इत्यमर । एव वल्लयो लतास्ताभि सम सहाऽभज्यन्त भग्ना भूमौ निपातिता इत्यर्थ ( ,गजसेनया पतीना विनाशे केरलदेशीयनारीणा चूर्णकुन्तला देशाचारररीत्या तासा मुण्डनेन भूमौ पतिता मलयद्रुमाश्च तैर्गजैभूमौ पातिता: । अत्र सहोक्तिरलङ्कारः । द्रुमाणा पाते बल्लयोपि पतन्त्येवेति सूच्यते ।

भाषा

 विक्रमाङ्कदेव के हाथियो ने मलयाचल के चन्दनवृक्षो के साथ ही केरल देशीय स्त्रियो के.केशपाश रूपी लता को भी तोड कर पृथ्वी पर गिरा दिया । अर्थात् गज सेना ने उनके पतियो का नाश हो जाने पर देशाचारानुसार उन स्त्रियो के विधवा हो जाने से केश भी मूंड दिये गये थे और वे पृथ्वी पर गिर गये ।

मदस्तम्बेरमैस्तस्य मलये निर्द्रुमोकृते ।
मन्ये चन्दनवायूनामभृद्दूर्भिक्षमक्षयम्

अन्वयः

 तस्य मदस्तम्बेरमैः मलये निर्द्रुमीकृते (सति) ‘चन्दनवायूनाम् अक्षयं दुर्भिक्षम् अभूत (इति) मन्ये ।