पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्री ॥

महाकवि श्री बिल्हण-विरचितं

विक्रमाङ्कदेवचरितम्

चतुर्थः सर्गः ।

कार्यतो युवराजचे राजघ्नुरवस्थितः ।
स दिग्विजयमव्याजवीरः स्मर इयाकरोत् ॥१॥

अन्वयः

कार्यतः युवराजद्वे अवस्थितः अव्याजमीढ सः राजसूनुः स्मरः इव दिग्विजयम् अकरोत् ।

व्याख्या

कार्यतस्सम्पूर्णराज्यकर्यकारित्वाद्यवराजत्वे युवराजकार्यसम्पादनेऽवस्थितः प्रतिष्ठितो न तु युवराजपदे समभिषिक्षतस्तत्र तु तदग्रजस्सोमदेवो नाम राजपुत्रोऽ भिषिक्त आसीत । व्यजेन कपटेन वरो व्यजधीरः स न भवतीत्यव्यजवरो निष्कपटबीरः सत्यशूर इत्यर्थः । सः प्रसिद्ध राजसुर्नृपपुत्रः ‘आत्मजस्तनयः स्नुडसुतः पुत्रः स्त्रियां यम ' इत्यमरः । विक्रमाद्धदेवः स्मर इव काम इव ‘कामः पञ्चशरः स्मरःइत्यमरः । दिशासानां 'दिशस्तु ककुभः काष्ठा आशाश्र्च हरितश्च सः' इत्यमरः । लक्षणया दि स्थितानां राज्ञामयजना नाञ्च विजयं जयमकरोत् । पृथ्धोस्थरकलभूपानां पराजयं विधाय तान् स्ववशे कृतवनिस्पर्थः । राजसूनोस्स्मरेण साधम्र्यावगमादुपमालङ्कारः साथम्यमुपमा भेदे। सर्गेऽस्मिन्ननष्टप् छन्दः । ‘इलोके षष्ठे गरुभ्यं सर्वत्र लघु पञ्चमम् । द्विचतुः पादपीहंस्वं सप्तमं दीर्घमन्यग्रः ।।' इति लक्षणात्

भाषा

सम्पूर्ण राज्य कार्य करने के लिये युवराज पद पर अभिषिक्त ने होते हुए