पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(१९७)


प्रतिष्ठापयति स्म । बहवो बहुसंख्यका: क्षितीशा राजानः कन्याग्रः स्वदुहितुः प्रदानं - पाणिग्रहणरूपेण समर्पणं तस्थ छलेन व्याजेनऽस्याऽस्मै राजकुमाराय सर्वस्यस्य सर्वयनराज्यादेः प्रदान् चक्षुः सर्वस्वं धनराज्यादिकं यावद्वस्तु ददुः। "अस्य सर्वस्थदानं चक्षुः” इत्यत्र "अस्ये " तिष्ठीप्रयोगश्चिन्त्यः ।

भाषा

 विक्रमाङ्कदेव ने शरण में आए हुए मालवा के राजा को निष्कण्टक राज्य पर पुन बैठा दिया। बहुत से अन्य राजाओ ने अपनी कन्याओ का उसके साथ विवाह कर देने के मिष से अपना सर्षस्य उसको समर्पण कर दिया ।

त्रिलोकवीरः कियतो विजिग्ये न दुर्दसानां प्रतिपार्थिवानाम् ।
दोर्विक्रमेणाङ्कतप्ताहसेन महाहवानाहवमल्लखानुः ॥६८|

अन्वयः

 त्रिलोकवीरः श्राहवमलल्सुनु: अद्भुतसाहसेन दोर्विक्रमेण दुर्दमानांप्रतिपार्थिवानां कियतः महाहयान् न विजिग्ये ।।

व्याख्या

 त्रिलोके भुवनत्रये वीर एकचूर आहवमल्लस्य सूनुः पुत्रो विक्रमाङ्कदेयोऽअभुत चित्रं साहस बमो यस्य सः 'साहसं तु दमो दण्डः' इत्यमरः । तेन दोष्णोरुंजयो विक्रमः पराक्रमस्तेन दुःखेन दमयितुं दान्तु दण्डयितुं शक्या दुर्दमास्तेषांदुर्दमानां दुर्जयाना प्रतिपार्थिवाना विपक्षिनृपाणा शकूणामित्यर्थः । कियतःकतिसख्याकान् महाहयान् महासमरान्न विजिग्ये न जयति स्म । बहुख्यानिमहायुद्धानि जपति स्मेति भावः । अनार्यापत्यलङ्कारः ।

भाषा

 तीनो लोको में अपनी वीरता का रानी न रखने वाले थाहनमहल राजा केपुत्र विक्रमाङ्क देब ने, विचित्र दमनशक्ति से युक्त अपनी भुजाओं के पराक्रमसे अनेक दुदन्ति विपक्ष राजाओं के अर्थात् शत्रुओं के कितने महायुद्ध को नहींजंता । अर्थात् अन महायुद्धो करो जोता ।

उत्कन्धरानेव रणाङ्गणेषु यस्यातिङ्गस्य हठात्महर्तु:।
न नम्रमावदपरो नृपाणामासत्कृपाणप्रतिषेधमार्गः ॥६३