पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १९४ )

'स्पाञ्चैत्रे चैत्रिको मधुः' इत्यमरः । विना यिनैव चन्दनस्य चन्दनवृक्षस्य वायुः पवनश्चन्दनवायुर्दक्षिणानिल इत्यर्थः । आसीत् प्रादुर्बभूव । तद्वाहिन्यामसंस्पाता गजा आसन्नितिभावः । अत्र चैत्रं विना चन्दनवायुप्रवृत्तेवि भावनालङ्कारः । “विभावना विना हेतुं कार्योत्पत्तिर्यदुच्यते ।"

भाषा

 विक्रमाहदेव के मलयाचल के कुञ्ज में प्रविष्ट होने पर उसकी सेना के हाथियों के कानरूपी ताड के पखो से, चैत का महीना न होने पर भी, विरहिणियों को सन्तप्त करने वाला, चन्दन की सुगन्ध से युक्त दक्षिणानिल बहने लगा ।

अदर्शयत्कामपि राजहंस-लीलामपसौ कुन्तलराजसूनुः । निस्त्रिंशधाराजलसङ्गतं यद् द्विपां यशः क्षीरमिवाचकर्ष ॥६४।।

अन्वयः

{{bold| असौ कुन्तललराजसूनुः काम् अपि राजहंसलीलाम् अदर्शयत् । यत् निस्रिशधाराजलसङ्गतं द्विपां यशः क्षीरम् इव आचकर्प ।

व्याख्या

 असौ कुन्तललराजस्य कुन्तलदेशाधिपस्य सूनुः पुत्रो विक्रमाङ्कदेवो कामपि विचित्रां राजहंसस्य राजश्रेष्ठस्य हंसपक्षिणो वा लीलां क्रीडाविलासमदर्शयत् प्रकटयाम्बभूव । 'राजहंसास्तु ते चञ्चुचरणैर्लोहितैस्सिताः' इत्यमरः अद्यस्मा- त्कारणात् निर्गतस्त्रिशद्भयोऽङगुलिभ्य इति निस्त्रिशः खङ्गः 'तूण्यां खङगे तु निस्त्रश चन्द्रहासासिरिष्टयः' इत्यमरः । तस्य धाराजलेन तीक्ष्गाप्रभागजलेन सङगतं मिश्रितं द्विषां शत्रूणा द्विङविपक्षा हितामित्रदस्युशात्रवशत्रवः' इत्यमरः। यशः कीर्तिं क्षीरमिव दुग्धमिवाऽऽचकर्ष पृथक् कृतवान् । हंसो मिश्रित-नीरक्षीरयोः क्षीरं पिबति नीरं त्यजतीति प्रसिद्धिः । कुन्तलराजपुयोऽपि स्वखङ्ग धाराजलमिश्रितशत्रुयशसो यशः पृथकत्वेन स्वीचकरोति भावः । श्लेषानुप्राणि- तातिशयोक्तिनिदर्शना वाऽलङ्कारः ।

भाषा

 उस कुन्तलदेश के राजपुत्र ने श्रेष्ठराजा की या राजहंस पक्षी की एक विलक्षण लिला दिखाई। जिस प्रकार राजहस पानी और दूध मिला देने पर पानी से