पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १९१ )

अन्वयः

 सः यौवराज्यश्रियम् आश्रितस्य ज्येष्ठस्य, राज्ये स्थितस्य पितुः च द्वयोः अपि अखिलं कार्यम्, आदिकूर्मः भूरोपयोः भारम् इव बभार ।

व्याख्या

 स विक्रमाङ्कदेवो यौवराज्यश्रियं यौवराज्यलक्ष्मीमाश्रितस्य ज्येष्ठस्य ज्येष्ठभ्रातुः सोमदेवस्य, राज्ये राज्यसिंहासने स्थितस्य धतंगानस्य पितुस्तातस्य च द्वयोरुभयोरप्यखिलं समस्तं 'विश्वमरोषं कृत्स्नं समस्तनिखिला- खिलानि निःशेपम्’ इत्यमरः । कार्यं युवराजप्रयुक्तं राजप्रयुक्तञ्च कार्यमित्यर्थः । आदिकूर्मो विष्णोः प्रथमावताररूपः कच्छपो भूः पृथ्वी रोषो नागराजोऽनन्तस्त-योर्भारमिच बभार पारयमास । ययाऽऽदिकच्छपो भूवस्तद्धारकस्य मागराजस्याऽपि भार दधाति तथैव विक्रमाङ्कदेवः स्वज्येष्ठभ्रातुस्स्वपितुश्च कार्यभार-मवहदति भावः ।

भाषा

 भगवान् विष्णु का आदि अवतार कच्छप जैसे पृथ्वी और पृथ्वी का भार उठाने वाले कोषराज दोनो का बोझ उठाये रह्ता है उसी प्रकार विक्रमाङ्कदेव ने युवराज पद पर स्थित अपने बड़े भाई तथा राजगद्दी पर विराजित अपनेपिता इन दोनो का सम्भूर्ण कार्य भार अपने ऊपर ले लिया ।

आज्ञापयामास च वन्दिताज्ञं तमेव सर्वत्र रणोत्सवेषु ।
पपौ च भूपस्तदुपार्जितनि यशोवतंसानि जपामृतानि ॥६०॥

अन्यथः

 सः भूपः वन्दिताज्ञं तम् एव सर्वत्र रणोत्सवेषु आज्ञापयामास,तदुपार्जितानि यशोवतंसानि जयामृतानि च पपौ ।

व्याख्या

 स भूपो राजाऽऽहवमल्लदेवो वन्दिता सम्मानिताऽऽता येन तं सम्मानिताज्ञ तं विक्रमान्कदेवमेव सर्वत्र रणोत्सवेषु युद्धोत्सवेषु गमनार्पमाज्ञापपामास नियो जितवान् । तेन विक्रमान्कदेवेनोपार्जितानि समानोतानि यशः कीतिरेवाऽयतंगो भूषणं तेषां तामि । एतेन यस्याः पुष्पशाम्यं गम्यते । जया विजया एयाऽ-