पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १८९ )

अन्वयः

 चन्द्रमौलिः स्वयम् अम्लानकीर्तेः मे अभिचाच्छितं समाधास्यति इति विचार्यं सः उर्वीपतिः सुतोपदिष्टं सर्वं कार्यम् अन्वतिष्ठत् ।

व्याख्या

 चन्दमौलिः शशिशेखरः शिवस्स्वयमेवाऽम्लाना निष्कलङ्का कतियंशो यस्य तस्य मे ममाऽभिवाञ्छितमीप्सित समाधास्यति पूरयिष्यतीतित्थं विचापं निश्चित्यं सः प्रसिद्ध उर्व्या वसुंधरायाः ’सर्वंसहा वसुमती वसुधोर्वा वसुन्धरा' इत्यमरः । पति स्वमी राजाऽऽहवमल्लदेवः सुतेन पुत्रेणोपदिष्द सभक्षितं सर्वं पूर्णं कार्यं यौवराज्यप्रदानकार्यमन्वतिष्ठच्चकार ।

भाषा

 चद्रशेखर भगवान् शंकर, स्वय ही, निष्कलङ् कीर्तिवाले मेरी अभिष्ट सिद्धि करेंगे, ऐसा विचार करके उस राजा आहवमल्लदेव ने पुत्र द्वारा कथित, यौवराज्य प्रदान रूप कार्य को पूर्णता से सम्पन्न किया ।

ज्येष्ठे कृतेऽपि प्रतिपत्तिपात्रे तमेव लक्ष्मीरनुमन्यते स्म ।
पूरेण निम्ने निहिताऽपि सिन्धुरपेक्षते सगरमार्गमेव ॥५७॥

अन्वयः

 ज्येष्ठे प्रतिपत्तिपात्रे कृते अपि लक्ष्मीः तम् एव अनुमन्यते स्म । पूरेण निम्ने निहिता अपि सिन्धुः सगरमार्गम् एव अपेक्षते ।

व्याख्या

 ज्येष्ठे ज्येष्ठभ्रातरि सोमदेवे प्रतिपत्तिपात्रे यौवराज्यझनपात्रे कृतेऽपि सम्पा दितेऽपि लक्ष्मी राज्यश्रीस्तमेव विक्रमाङ्कदेवमेवाऽनुमन्वते स्म तस्मिन्नेव सन्मानं प्रणयिताञ्च प्रदर्शयति स्मेति भाव । पूरेण जलप्रवाहेण निम्ने नीचस्याने गहुँ वा निहिता प्रस्थापिताऽपि सिधूनंदी सागरस्य समुद्रस्य मार्गमेव पन्थानमेवाऽपेक्षते प्रतीक्षते । दृष्टान्तालङ्कारः ।

भाषा

 बड़े भाई सोमदेव को युवराज पद पर आरूढकर देने पर भी राज्य श्री विक्रमाङ्कदेव के ही अनुकूल थी । जल प्रवाह के कारण नीचे स्थान पर भी