पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १८७ )


साम्राज्यस्य दुता संदेशहरा 'स्थप्तदेशहरोस्यत्ात्सदेशहरो दूतो दूत्य तद्भायकर्मणि' इत्यमर । न, न सन्ति । तद्भाग्यसुचका न सन्तीति भाव । अथवा शशिशेखरश्चन्द्र मौलि शिव कारुण्येन दयया शून्मो रहित । यदि शिव स्वदपया तस्मै राज्यसुखभोग में ददति चेदिति भाव । तथापि तैरेव प्रहेग्रहे राज्यसुखभोगारा- सचकं रेव तात पिता भवान् कृतार्यं कृतकार्यर्स्सफलमनोरथ इत्यर्थ । भविता भविष्यति । तत्तस्मात्कारणाल्मे मम कीर्तिविपर्ययो दुयंशो वायंतामपयशो न विधातव्यमित्यर्थं ।

भाषा

 यद्यपि सोमदेव के ग्रह उसके राज्योपभोग सूचक नहीं है या यो कहें कि भगवान् शकर की उसपर दया नहीं है ! तो भी उन्ही ग्रहो से आप की मनोरथ सिद्धि होगी । इसलिये मेरे अपमश को न होने दिजीये ।

अशक्तिरस्यास्ति न दिग्जपेयेषु अस्याानुजोऽहं शिरसा धृताज्ञः।
स्थानस्थ एवाद्भुतकार्यकारी बिभर्तु रक्षामणिना समत्वम् ॥५४||

अन्वयः

 यस्य शिरसा धृताज्ञः अहम् अनुजः अस्य दिग्जयेषु अशक्ति: न अस्ति । स्थानस्थ: एव अद्भुतकर्मकारी (सन्) रक्षामणिना समत्वं बिभर्तु ।

व्याख्या

 यस्य सोमदेवस्य शिरसा नतमस्तकेन धृता सभिता आज्ञाऽऽवेशो येन सोऽह मनुज कनीयान्भ्राताऽस्मि । अस्य मम भ्रातुस्सोमदेवस्य दिशः जयो विजय स्तेषु दिग्विजयकर्मप्यशक्तिरसामध्यं नास्ति न सभवति । स स्थाने तिष्ठतौति स्थानस्य स्वस्थाने स्थित एवाऽभुताग्याश्चर्मकराणि कर्माणि करोतीतमद्भुत कर्मकारी सर्वसाधारणजनसाध्याश्चर्यजनककृत्यससाधकस्सत् रक्षमणिना सर्व रक्षणक्षमरूपाघिन्यंप्रभागशालिमना मणिना सह समस्थं सादृश्य बिभर्यतु । यथा रक्षामणि स्वस्थानस्थितस्सत् यस्य शरीरे तिष्ठति तस्य सर्वेतो भावेन रक्षणं करोति तथैव मे भ्राता स्वस्थानरियत रान्मत्सहाम्येसाऽद्भुतकर्मकारी भूत्वा सकलजनसरक्षको भवत्विति भाव ।