पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १८२ )

व्याख्या

 यस्या राजलक्ष्म्या कृते भूमि बिभ्रति पालयन्तीति भूमिभूतस्तेषांपृथिवी पालाना कुमारा पुत्रा राजकुमारा इत्यर्थं । केषां नयस्य नीतेर्विप्लवा विपर्या सास्तेषां नयविप्लवानामनीतीना पात्र भाजन न, न जाता । सा उन्मत्ता मदान्धा ये मातङ्गा गजा 'गजेऽपि नागमातङ्गौ' इत्यमर । तेषा सहस्र तद्वद्गूर्वी भारवती स्पृहणीया च राज्यलक्ष्मीस्ते त्वदर्थं तुणवरल्लघुरल्पीयसी तुच्छा च । अन्येराजकुमारा राज्यलक्ष्मीं सवतोऽधिका मन्यमनास्तदधमनीति माचरन्ति परन्तु त्वत्कृते सा तुच्छेति भाव ।

भाषा

 जिस राज्यलक्ष्मी के लिये अत्य राजाओ के पुत्र गण क्या २ अनीतिनही कर डालते वह सहस्रो मदोन्मत्त हाथियो से भी भारी तथा बहुमूल्य राज्यलक्ष्मी तुम्हारे लिये तृण के समान हलकी है अर्थात तुच्छ है ।


लङ्कासमीपाम्बुधिनिर्गतेयं रक्तासवैस्तृप्यति राक्षसीन ।
लक्ष्मीरसौ त्वद्भुजदण्डबद्धा पात्रं भवित्री विनयव्रतस्य ।।४७।

अन्वयः

 इयं लङ्कासमीपाम्बुधिनिर्गता लक्ष्मीः राक्षसी इव रक्तासवैः तृप्यति । असौ त्वद्भुजदण्डबद्धा सती विनयमतस्य पात्र भवित्री

व्याख्या

 इयं पूर्ववर्णिता लड्काया रावणनगर्या समीपे योऽम्बुधिस्समुदस्तस्मान्निर्गता जाता लक्ष्मी थी राक्षसीव रक्तानि चधिराण्येवाऽसवा मद्यानि तैस्तृप्यति तृप्तिमाप्नोति । तथा लङ्काया जाता काचिद्राक्षसी रुधिरपानेनैव तृप्यति तथैव लङ्कानिकटस्थसमुद्रजा लक्ष्मीरापि रुधिरप्रवाहेण तुप्यतीति भाव । असौ लक्ष्मीस्त्वद्भुजादेव दण्डौ तयोर्वद्धा यद्भुजयोर्दण्डेन शासनेन वा बद्धा सती विनयव्रतस्य विनम्रताशिक्षाया पाश्रमास्पदं भवित्री भविष्यति । लोके वण्डेनैव दुर्विनीतानां शासन भवति । दुर्विनीता विनीताश्च सपांद्यते, क्रूरात्यञ्च विहन्यते) सुस्वभावश्च संस्थाप्यते इति भाव ।