पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १८० )


व्याख्या

 रोमान्चेनत रोमहर्षणे तरङ्गितनि युक्तान्यङ्गानि यस्य स राजाऽऽहवमल्लदेव एनं विक्रमाङ्कदेवमझ उत्सङ्गं सस्नेहं प्रेमोल्लासपूर्वकं यथस्यात्तया विनिवेश्य संस्थाप्याऽस्य पुत्रस्य कण्ठे गलभाणेऽत्युज्यलाऽतिथिशदा दन्तानां 'रदना दन्ता रदाः' इत्यमरः । कान्तिः प्रभा तया धवलदन्तकान्तिछद्मना प्रसादरूपा या 'मक्तानां मौक्तिकानामावलिर्माला तां क्षिपन्निव च निदघदिव चवरच जगाद ।

भाषा

 सर्व अङ्गों में रोमाञ्च से युक्त उस राजा आहवमल्ल देव ने अपने पुत्र विक्रमाङ्क देव को प्रेम पूर्वक अपनी गोद में बैठाकर और उसके गले में अपनी श्वेत दन्तकान्ति वै मिष से मानो प्रेम से समर्पित मोतियो | की माला को पहनाते हुए, कहा ।

भाग्यैः प्रभूतैर्भगवानसौ मे सत्यं भवानीदयितः प्रसन्नः ।
चालुक्यगोत्रस्य विभूषणं यत् पुत्रं प्रसादीकृतवान्भवन्तम् ।।४४॥

अन्वयः

 असौ भगवान् भवानीदयितः मे प्रभूतैः भाग्यैः सत्यं प्रसन्नः । यत् चालुक्यगोत्रस्य विभूषणं भवन्तं पुत्रं प्रसादीकृतवान् ।

व्याख्या

 असौ भगं विद्यते यस्मिन् स भगवान् 'भगं श्री काममाहात्म्पवोर्यपलाकं . कीर्तिषु' इत्यमरः । ‘भगं श्री योनिवीर्पेच्छाज्ञानवैराग्यकिर्तीषु । माहात्म्यं श्वर्ययत्नेषु धमें मोक्षेऽय ना रच' । इति मेदिनी । भवन्याः पार्वत्या दयितो वल्लभः ‘अभीष्टेऽभीप्सितं हृद्यं यघितं वल्लभं प्रियम्' इत्यमरः । शिवो मे प्रभूतैर्वहुलैर्भाग्यैर्भागधेयैः ‘दैवं दिष्ट भागधेय भाग्यं स्त्री नियतिविधि.' इत्यमरः । सत्यं ध्रुवं प्रसन्नः प्रीतः । यद्यस्मात्कारणात् चालुक्यगोत्रस्य चालुक्यवंशस्य विभूषणमलङ्कारभूतं भवन्तं त्वां पुत्रं पुत्रत्वेन प्रसादीकृतवान् दत्तवान् । त्वत्सदृशं चालुक्यवंशालङ्कारभूतं पुत्रं प्रसादीकृत्य । तेन शिवेन महाननुग्रहः प्रदर्शित इति भावः । ‘भवानीदपितः' इति चिन्त्यम ।