पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

( १७८ )


रामस्यपित्राभरतोऽभिषिक्तःक्रमंसमुल्लङ्घ्य यदात्मराज्ये।
तेनोत्थिता स्त्रीजित इत्यकीर्ति-रद्यापि तस्यास्ति दिगन्तरेषु॥४०॥

अन्वयः

 यत् रामस्य पित्रा आत्मराज्ये क्रमं समुल्लङ्घ्य भरतः अभिषिक्तः तेन उत्थिता स्त्रीजितः इति तस्य अकीर्तिः अद्य अपि दिगन्तरेषु अस्ति ।

व्याख्या

 यत् रामस्य पित्रा दशरथेनाऽऽत्मनः स्वस्य राज्ये क्रमं नियमोचितपरिपाटी क्रमं समुल्लङ्घ्याऽतिक्रम्य भरतः स्वकनीयान्पुत्रोऽभिषिक्तोऽभिषेकतिलकाञ्चितः कृतस्तेनाऽनचितकार्येणोत्थिता समुत्पन्ना स्त्रिया भार्यया जितो वशीकृत इति । तस्याऽकीर्तिरपयशोऽद्याप्यद्यावधि दिगन्तरेषु सर्वदिक्ष्वस्ति विद्यते ।

भाषा

 चूंकि रामजी के पिता दशरथ राजा ने कुलपरम्परागत क्रम का उल्लंघन कर बड़े भाई के रहते हुए छोटे भाई, भरत का राज्याभिषेक किया, इस अनु चित कार्य से उत्पन्न, स्त्री का वशीभूत, ऐसी उसकी अपकीर्ति अभी भी सब दिशाओं में अर्थात् सर्वत्र फली हुई है ।

तदेप विश्राम्यतु कुन्तलेन्द्र यशोविरोधी मयि पक्षपातः ।
न किंसमालोचयति क्षितीन्दु-रायासशून्यं मम राज्यसौख्यम् ॥४१॥

अन्वयः

 हे कुन्तलेन्द्र। तत् एषः मयि यशोविरोधी पक्षपातः विश्राम्यतु । क्षितीन्दुः मम आयासशून्यं राज्यसौख्यं किं न समालोचयति ।

व्याख्या

 हे कुन्तलेन्द्र ! कुन्तलदेशाधिप ! तत्तस्मात्कारणादेव मयि मत्सम्बन्धे यशसः कीर्तेर्विरोधी प्रतिबन्धको दुष्कीर्तिजनकः पक्षपातो विश्राम्यतु विश्रान्तिमेतु, न जायतामित्यर्थः । क्षितीन्दुः पृथिवीन्दुर्भवान् ममाऽऽयासेन परिश्रमेण शून्यं रहितमनापासप्राप्तमित्यर्थः । राज्यसौख्यं किं न समालोचयति, कथं न पश्यति । अहं स्वनायासेनैव राज्यसौख्यमनुभवामीति भवान् जानात्येवेत्यर्थः ।