पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

( १७७ )

व्याख्या

 ज्येष्ठं भ्रातरं सोमदेवं परिम्लानं क्रमप्राप्तराज्यलक्ष्मीपरिग्रहाप्राप्त्या मलिनं मुखं वदनं यस्य तं विधाय कृत्वाऽहं लक्षम्या प्रणय स्नेहस्तस्मिन्नुन्मुख प्रवण परायणो वा भवामि चेत् तर्हि अन्यायेऽन्याययुक्तकार्ये परायणो लग्नस्तेन मया विक्रमाङ्कदेवेनैव गोत्रे विशुद्धचालुक्यवंशे कलङ्कः कालुष्यं लिखितः सम्पादितः । किमन्यदन्यायकार्यम् ? अन्यस्याऽन्यायकार्यस्याऽन्वेषणप्रयासो व्यर्थं एवेति भावः ।

भाषा

 यदि में अपने बड़े भाई सोमदेव को क्रमप्राप्त राज्यलक्ष्मी के न प्राप्त होने से उदास वनाकर स्वयं लक्ष्मी’ के प्रेम में तत्पर हो जाऊं,तो अन्याय युक्त कार्य करने में तत्पर, मैने ही इस शुद्ध चालुक्य वंश में कलङ्क लगाया। और क्या अन्याय का कार्य हो सकता है ?

तातश्चिरं राज्यमलङ्करोतु ज्येष्ठो ममारोहतु यौवराज्यम् ।
सलीलमाक्रान्तदिगन्तरोऽहं द्वयोः पदातिव्रतमुद्वहामि ॥३६॥

अन्वयः

 तातः चिरं राज्यम् अलङ्करोतु, मम ज्येष्ठः यौवराज्यम् आरोहतु, अहं सलीलम् आक्रान्तदिगन्तरः सन् द्वयोः पदातिव्रतम् उद्वहामि।


व्याख्या

 तातः पिता चिरं चिराय 'चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः' इत्यमरः । राज्यमलङ्करोतु विभूषयतु । मम ज्येष्ठो ज्येष्ठभ्राता सोमदेवो यौवराज्यं युवराजपदमारोहतु अधितिष्ठतु । अहं लीलया सहितं सलीलं सहेलं ययास्यातथाऽऽक्रान्ताति समधिष्ठितानि दिगन्तराणि येन स आक्रान्तदिगन्त रस्सन् द्वयोस्तातस्य भ्रातुश्च पदातेः पत्तेः 'पदातिपत्तिपदगपादातिक पदाजयः इत्यमरः । श्रुतं नियममुहम धारयामि। अहं तव ज्येष्ठभ्रातुश्च पादातिको भूत्वोभयोः सेवां करिष्यामीति भावः ।

भाषा

 आप चिरकाल तक राज्य को शोभित करते रहें । बडे भाई युवराज पद पर आरूढ हो। में, बात की बात में समग्र दिशाओं में आक्रमण करता हुआ, आप दोनो का प्यादा बनकर रहूँगा । १२