पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १६८ )


व्याख्या

 तेज एव दीप्तिरेव धनं येषा ते तेजोघनास्तेषां तेजस्विनामुपरि सर्वोत्कर्षेण स्थितस्य विद्यमानस्य तस्य राजसुनोरुच्चैः शिरसि स्थितं विराजमानं किरीट- रत्नं मुकुटरत्नं मणिभी रत्नादिभिर्निमिते पादपीठे पादाधारपीठे सक्रान्तिभङ्गया प्रतिबिम्बव्याजेन क्षमां प्रार्थयितुमिव याचितुसिव लुलोठ पपात । अत्रोत्प्रेक्ष्या- लङ्कार: ।

भाषा

 सब तेजस्वियो में श्रेष्ठ इस राजपुन के, मस्तक पर का मुकुटमणि, रत्न जडित पाव रखने की चौकी पर पडी अपनी परछाई के मिष से (उस तेजस्वी के भो ऊपर बैठने के अपराध से) मानो क्षमा याचना करने के लिये उसके पैरो पडता था ।


अत्रान्तरेऽभूज्जयसिंहनामापुत्रस्तृतीयोऽपि नराधिपस्य ।
स्वप्नेऽपि संवादशोदरिद्रश्चन्द्रार्द्धचूडस्य न हि प्रसादः ॥२५॥

अन्वयः

 अत्र अन्तरे नराधिपस्य जयसिहनामा तृतीयः अपि पुत्रः अभूत् । हि चन्द्रार्द्रचूडस्य प्रसादः स्वप्ने अपि संवादयशोददिः न (भवति) ।

व्याख्या

 अत्रान्तरेऽस्मिन्नवकाशे 'अन्तरमवकाशवधिपरिषानन्तधभेदतादथ्यै’ इत्य मरः । नराधिपस्याऽऽहवमल्लदेवराजस्य जयसिंहनामा जयसिंहनामकस्तृती योऽपि पुत्रः सूनुरभूदजायत । हि यस्मात्कारणात् चन्द्रार्द्धश्चूडापा शिरसि यस्य तस्य शिवस्य प्रसादोऽनुग्रहः स्वप्नेऽपि कयमपीतिभावः । सवादस्य स्वानुकूल- फलदानरूपस्य वचनस्य यद्यशस्तेन दरिद्रो रहित न, नभवतीत्यर्थ: । शिवप्रसादप्राप्तिप्रयोजकवचनस्य सदैव सत्यत्वमिति कुतस्तद्वचनस्य मिथ्या- भाव प्रसङ्ग इति भावः ।। अत्र पूर्वार्द्रक्तस्य द्वितीयार्द्धोक्तेनाऽर्थेन समर्थना- दर्य्यान्तरन्न्यासालङ्कार: । ‘सामान्य वा विशेषेण विशेषस्तेन वा यदि । कार्यञ्च कारणेनेद कार्येण च समर्थ्यते । साघर्म्येणेतरेणाऽर्थान्तरन्यासोऽष्टघा तत: । इति लक्षणात् ।