पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १६५ )


व्याख्या

 निशासु रात्रिषु लावण्यस्य सौन्दर्यस्य कलास्तासा कलापाः समूहस्तैः परिः पूर्यमाण स बालः कुमारः चन्द्र इव शशीव नूतनचन्द्रो वा तं समालोक्य दृष्ट्या कुमुद्वतीनामिव कुमुदिनीनामिव कामिनीनामङ्गनाना निद्रा विमुखीबभूवाऽपससार गतेत्यर्थः । यथा निशासु नवीनचन्द्वं विलोक्य कुमुदिनी विकसिता भवति स्वकुड् मलत्वरूपनिद्रा जहाति तथैव कामिन्योऽपि तमद्भूतसौन्दर्यंयुक्त कुमारं निरीक्ष्य कामज्वरपीडिताः सत्यो रात्रौ निद्रा न लब्धवत्य इति भावः । अत्र कुमुद्वती कामिन्योर्द्वयोरेकक्रियान्वयात्तुल्ययोगितालङ्कारः।

भाषा

 रात्रियो में जिस प्रकार कलासमूहो से क्रमश परिपूर्ण होने वाले नूतन चन्द्रमा को देखकर कुमुदिनी विकसित हो जाती है और उसकी कलीस्वरूपी निद्रा हट जाती है उसी प्रकार सौन्दर्य से परिपूर्ण होने वाले उस कुमार को देखकर सुन्दरियाँ काम ज्वर से पीडित हो जाती है अतएव रात्रियो में उनकी निद्रा दूर हो जाती है।

धैर्येण तस्मिन्नवधीर्य याति स्मरोत्सुकानां नगराङ्गनानाम् ।
आबद्धमुग्धभ्रुकुटिच्छटानां पेतुः सकोपं नयनोद्पलानि ॥२१॥

 धैर्येण अवधीर्यं याति तस्मिन् स्मरोत्सुकानाम् आबद्धमुग्धभ्रुकुटीच्छ टानां नगराङ्गनानां नयनोत्पलानि सकोपं पेतुः । धैर्येण धीरतया स्वस्वाभाविकगुणेन गाम्भीर्येणरवधीर्य कामिनीस्तिरकृत्य याति गच्छति तस्मिन् कुमारे स्मरेण कामवेगेतोसुकानामुद्वेल्लितमानसानामाबद्धाः सहकुचिता अत एव मुग्धा सुन्दर्यंो य भ्रुकुटयस्तासा च्छटा शोभा यासां तासां नगराङ्गणानां नागरिकसुन्दरीणां नयनान्येन नेत्राण्येवोत्पलानि इन्दीवराणि तानि सकोप कोपेन सहित यथा स्यातथाऽनादर दृष्ट्या समुद्भूतेन क्रोधेन पेतुः न्यपतत् । कामवेगेनोत्सुकानामङ्गनानां धीरतयाऽवधीरणात्तस्मिन् ताः कुपिता सजाता इति भावः ।