पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(१६३)


जगाम प्राप । अत्र संसारे तथाविधानां नृपकुमारसदृशानामलौकिकानां पुण्या त्मनां सुकृतिनां गुरव उपदेशका निमित्तमात्रं करणमात्रं भवन्ति । पुणयैरेव सर्व विद्या अनायासेन ते प्राप्नुवन्ति गुरवस्तु निमित्तमात्रं भवन्तीति भावः।

भाषा

 वह राजपुत्र धीरे २ समग्र वर्णमालाओ को अच्छ तरह से जान गया। इस संसार में ऐसे पुण्यात्माओं के शिक्षकगण केवल नेिमित्त के लिये ही होते है।

अभ्यासहेतोः क्षिपतः पृषत्कान् नरेन्द्रसूनोः सकलासु दिक्षु । प्रहारभीतेव परिभ्रमन्ती पार्थस्य कीर्तिविरलीबभूव ॥१८


अन्वयः

 अभ्यासहेतोः सकलासु दिक्षु पृषत्कान् क्षिपतः नरेन्द्रसूनोः प्रहारभीता इय परिभ्रमन्ती पार्थस्य कीर्तिः विरलीवभूव ।

व्याख्या

 अभ्यासहेतोर्बाणादिविक्षेपणाभ्यासदार्ढ्याय सकलासु समग्रासु दिक्षु काष्ठासु 'दिशस्तु ककुभ काष्ण आशाश्चहरितश्च ताः' इत्यमरः । चतुर्दिक्ष्यित्यर्थः। पृषत्कान् बाणात् ‘पृषत्कबाणविशिखा अजिह्ममखगाशुगाः' इत्यमरः । क्षिपतोः मुञ्चतोः नरेद्रसूनो राजपुत्रस्य प्रहारात्प्रहरणाद्भीतेव भययुक्तेव परिभ्रमन्ती- तस्ततश्चलन्ती पार्थश्स्याऽर्जुनस्य कीर्तिर्बाणसन्धानयशो विरलोबभूव निबिडेतरा बभूव न्यूनीवभूयेत्यर्थः। राजकुमारस्याऽभ्याससमय एव बाणसन्धानकौशलम- र्जुनादप्यधिकमासीदिति भावः ।

भाषा

 अभ्यास करने के लिये सब दिशाओं में बाणो को चलाने वाले उस राजपुत्र के बाणो के प्रहार से भय से मान डरी हुई, चारो ओर भागने वाली (अर्जुन के पक्ष में) चारो ओर फैली हुई अर्जुन की बाण चलाने की कीर्ति सकुचित हो गई । अर्थात् अभ्यास काल में ही वह राजपुत्र बाण चलाने की कला में अर्जुन से भी कुशल था ।