पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १५७ )

व्याख्या

 क्रमेण जातकर्मादिसंस्कारानन्तरं सम्पादितं निष्पादितं चूलकर्म चूडाकर्मसंस्कारो यस्य सः सम्पादितचूलकर्मा स नन्दयतीति नन्दनः सर्वजनानन्ददातापुत्रश्चालुक्यवंशीपा ये भूपाला नरेश्वरास्तेषां धुरन्धरस्याऽप्रगण्यस्याऽहवमल्लदेवस्य विनोवलीला मनस आनन्दविहारलीला एव कुसुमानि पुष्पाणि ‘स्त्रियःसुमनसः पुष्पं प्रसूनं कुसुमं सुमम्' इरयमरः। तेषामुञ्चयास्समूहः 'समुदायस्समुदयः समपश्चयो गणः' इत्यमरः । तेषां नदन्तामिन्द्रस्य नन्दनवनना  मककाननस्वरूपतामवाप प्राप्तवान् । यथा नन्दनवने पुष्पौञ्चयानामियत्ता नास्ति तथैयाऽस्य राज्ञो मनसि विनोदलीलानामत्याधिक्य बभूवेति भावः । पुत्रे नन्दनवनत्वारोपे विनोदलीलासु कुसुमत्वारोपस्य कारणत्वात्परम्परितं रूपकम् । ‘नियतारोपणोपायः स्यादारोपः परस्य यः । तत्परम्परितं श्लिष्टे वाचके भेदभाजि वा ॥

भाषा

'धीरे २ जातकर्मादि सस्कारो के अनन्तर चौलकर्म संस्कार होने के बाद वह

राजपुत्र, चालुक्य वशीय राजाओं में श्रेष्ठ आहवमल्लदेव राजा के मानसिक आनन्द विहार लीला रूपी पुष्पसचयो का इन्द्र का नन्दनवन ही हो गया । अर्थात् जिस प्रकार नन्दन वन में अगणित पुष्प समुदाय होते है वैसे इस राजाके मन में इस बालक को देख वर अपरिमित आनन्द विहार लीलाओं का प्रादुर्भाव हुआ।


उत्सङ्गमारुह्य नरेश्वरस्य स पांसुलीलापरिधूसराङ्गः ।
निजाङ्गतः संगलितैः परागैश्चक्रे मनःकार्मणचूर्णयोगम् ॥१०॥

अन्वयः

 पांसुलीलापरिधूसरीदङ्गः स नरेश्वरस्य उत्सङ्गम् आरुह्य निजाङ्गतः संगलितैः परागैः मनःकार्मणचूर्णयोग ‘चक्रे ।

व्याख्या

 पांसुषु धूलिषु ‘रेणुर्द्धयोः स्त्रियां धृलिः पागुर्ना न द्वयो रजः' इत्यमरः । लीला क्रीडा तया परिधूसराणीषत्पाण्डून्यङ्गानि यस्य स 'हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः' इत्यमरः । धूलिक्रीडनेन धूलिधूसरिताङ्गः स बालकः