पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(१५६)


यदुत्थितः सोऽङ्गुलिसंग्रहेण यत्किञ्चिदव्यक्तमवोचतापि ।
अभीक्ष्णमक्ष्णोः श्रवसोश्च तेन क्षमापतेः संवननं बभूव ॥८॥

अन्वयः

 यत् सःअङ्गुलिसंप्रहेण उत्थितः अपि यत् किञ्चित् अव्यक्तम् अवोचत तेन क्षमापतेः अक्ष्णोः श्रवसोः च अभीक्ष्ण संवनन बभूव ।

व्याख्या

 यद्यस्मात्कारणात् स बालकोऽन्येष। जनानामङगुलिसप्रहेणऽडगुलिं धृत्योथित्त समुत्थान कृतवान् ‘अङ्गुल्य करशाखास्स्यु' इत्यमर । अपि चाऽन्यच्च यत्किञ्चिदव्यक्यतमस्पष्टमवोचत सजगाद तेन कारणेन क्षमाया पति स्वामी तस्याऽवनिभर्तु ‘क्षितिक्षान्त्यो क्षमा सुक्ते क्षम शकते हिते त्रिषु । 'घव प्रिय पतिर्भर्ता' इत्यमर । अक्ष्णोर्नयनयो ‘लोचन नयन नेत्र मीक्षण चक्षुरक्षिणी' इत्यमर । श्रवसोश्च कर्णयोश्च 'कर्णशब्दग्रही श्रोत्र श्रुति स्त्री श्रवण श्रव' इत्यमर । अभीक्ष्ण पुन पुन 'मुहु पुन पुन शश्यदभीक्ष्णमसकृत्समा ' इत्यमर” । संवननं वशीकरण ‘वशक्रिया सवनन' इत्यमर । अभूत् बभूव । तस्य बालस्यो अगुलिं सगृहयोत्थान दृष्ट्वा यत्किञ्चिदस्पष्ट सभाषणञ्च श्रुत्वा राजा वशीकरण भन्त्राभिभूत इव जात । सर्वं कार्यजातं त्यक्त्वा तदवलोकनश्रवणपयोर्मग्न इति भाव ।

भाषा

 चूकि यह बालक दूसरो की अगुली पकड़ कर उठने लगा और साफ २ समझ में न आने वाले शब्दो को बोलने लगा इससे राजा की आंखो व कान का बार २ वशीकरण होता था । अर्थात राजा सब कामो को छोड इस बालक की लीला देखने में ही परम मुदित होता था ।

क्रमेण सम्पादितचूलकर्मा चालुक्यभूपालधुरन्धरस्य ।
विनोदलीलाकुसुमोच्चयानां स नन्दन नन्दनतामवाप

अन्वयः

 क्रमेण सम्पादितचूलकर्मा सः नन्दनः चालुक्यभूपालधुरन्धरस्य विनोदशीलाकुसुमोच्चयाना नन्दनताम् अवाप ।