पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १४६ )

भाषा


 जैसे अद्भुतगुणयुक्त शुभलग्न में पूर्ववर्ति किसी भी सार्वभौम राजा ने जन्म नहीं पाया था ऐसे शुभ लग्न में भगवान् शंकर की कृपा से राजा को पुय हुआ।


चतुर्भिः पताका-कलापकमित्यर्थः ।


सुरप्रसूनान्यपतन्सषट्पदध्वनीनि दध्वान सुरेन्द्रदुन्दुभिः ।
परं प्रसादं ककुभः प्रपेदिरे गुणैः कुमारस्य सहोत्थितैरिव ॥८६॥


अन्वयः


सपट्पध्वनीनि सूरप्रसूनानि अपतन् । सुरेन्द्रदुन्दुभिः दध्वान । कुमारस्य सहोत्थितैः गुणैः कङ्कुभः परं प्रसादं प्रपेदिरे इव ।}}


व्याख्या


 षट्पदानां भ्रमराणां षट्पदभ्रमरालयः' इत्यमरः । ध्वनिना शब्देन सहि तानि सपट्पदध्वर्नि सुरप्रसूनानि देवकुसुमानि 'प्रसूतं कुसुमं सुमम्' इत्यमरः । आकाशादपतन् पुष्पवृष्टिर्बभूवेत्यर्थः । सुरेन्द्रस्य पाकशासनस्य दुन्दुभिः दुंदुमिति शब्देन भातीति दुन्दुभिः भेरी भेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । दध्वान शन्दं चकार। कुमारस्य नवजातशिशोः सहोर्हिथतर्जन्मना साकं समुत्पन्नैर्गुणैर्द यादाक्षिण्यादिमहापुरुषगुणैः ककुभः दिशः ‘दिशस्तु ककुभः काष्ठा आशाष्च हरितश्च ताः' इत्यमरः। प्रसादं प्रसन्नतां निर्मलत्वं वा प्रपेदिरें इव प्राप्ता इव । मंत्रोत्प्रेक्षालङ्कारः ।


भाषा


 आकाश से भौंरो की गुजार से युक्त नन्दन वन के फूलो की दृष्टि होने लगी । देवो के राजा इन्द्र का नगाडा बजने लगा । कुमार के साथ उत्पन्न उसके उज्वलगुणों से मानो सब दिशाएँ प्रसन्न अर्थात् उज्वल हो गई ।


नवप्रतापाङ्कुरचक्रकान्तया निरन्तरारात्रिकदीपसम्पदा ।
श्रियं जगल्लोचनबालचन्द्रमाः समाजहारोदयसन्ध्ययेव सः ॥८७


अन्वयः


 जगल्लोचनबालचन्द्रमाः सः नवप्रतापाङ्कुरचक्रकान्तया निरन्तरारात्रिक दीपसम्पदा उदयसन्ध्यया इव श्रियं समाजहार ।