( १४३ )
सद्भिः प्रकटीभूतैः सहस्रशोऽसंख्यैः शकुनैः शुभचिन्हैर्नृपतेर्नृपस्याऽऽहवमल्लदेवस्य
महोत्सवं हर्षातिरेकं महोत्सेकं वा 'उत्सेकामर्षयोरिच्छाप्रसरे मह उतसवः
इत्यमरः । समर्पयन्ती जनयन्ती सती विवेश प्रविष्टा । “”
भाषा
इसके बाद प्रधान ज्योतिषी द्वारा बताए हुए शुभ दिन, वैद्यो द्वारा स्थापित
समग्र आवश्यक औषधियों से युक्त, रक्षा के लिये फेकी हुई मन्त्राक्षतो तथा
लिखे हुए मण्डलो या यन्त्रो से शोभित, चतुर कुलाङ्गनाओं द्वारा सुखप्रसव के
योग्य विधि विधान पूर्वक पूजित, प्रसूति घर में, होने वाले हजारो शुभ शकुनो
से राजा को परम आनन्द देती हुई, सुन्दर भौओं वाली रानी में प्रवेश किया ।
अथ कलापकेन पुत्रोत्पत्तिं वर्णयति कवि
{{bold|<poem>ततः प्रदीपेष्वपि तत्र विस्फुरत्प्रभाधरेष्वर्तिवशाञ्जपत्स्विव ।
विलासहंसीमपि बालकान्वितां परिच्छदे प्रष्टुमुपायमुत्सुके ॥८२॥<poem>
अन्वयः
ततः तत्र विस्फुरत्प्रभाधरेषु प्रदीपेषु अपि अर्तिवशात् जपत्सु इव
परिच्छदे बालकान्वितां यिलासहंसीम् अपि उपायं प्रष्टुं समुत्सुके सति
(नृपतेर्नन्दनोऽजायतेति पञ्चाशीतिश्लोकेन सम्बन्धः )
व्याख्या
ततः सूतिकागृहप्रवेशानन्तरं तत्र सूतिकागृहे धरन्तीति घरा विस्फुरन्या
देदीप्यमानायाः प्रभायाः कान्तेर्धरास्तेषु देदीप्यमानकान्तिधरेषु प्रदीपेषु गृहृदीपे
ष्यप्यर्तिवशात् पीड़ाकारणात् जपत्स्विव नृपकान्तायाः प्रसववेदनोन्मूलनाय
मन्त्रजपं कुर्यत्सु सत्स्वयय, जपकर्तृपक्षे विस्फुरन्तीतस्ततः प्रसरन्ती प्रभा यस्य
स विस्फुरत्प्रभोऽपरो येषां ते तेषु जपत्सु मन्त्रजपं कुर्वत्सु, परिच्छेदे परिजने
दास्यादिके बालकैरन्वितां युवतां नवजातबालयुक्तां विलासहंसीमपि क्रीडाहंसी
मप्युपायं प्रसववेदननिवारणपूर्वकपुत्रोत्पत्युपायः प्रष्टुं समुत्सुके समुत्कण्ठिते सति
नृपतेर्नंदनोऽजायतेत्पनेताऽन्वयः । अत्र जपत्स्यिवेत्यत्रोत्प्रेक्षालङ्कारः। उत्तरा-
र्धेऽतिशयोक्तिश्च ।