पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १३८ ) भप सायकाल के समय में पृथ्वीपति की चञ्चल नेत्रवाली रानी के हृदय में प्रतिबिम्बित चन्द्रमा मानो गर्भ में सुख से रहने वाले राजपुत्र कोगोल तकिया का काम करता था । अतः परं भविष्णुवीरपुत्रानुरूपं तस्य दोहदं वर्णयति कवि नृपप्रिया स्थापयितुं पदद्वयीमियेष दिक्कुञ्जरकुम्भभित्तिषु । चिराय धाराजलपानलम्पटा कृपाणलेखासु मुमोच लोचने ॥७४॥ नृपप्रिया दिक्कुञ्जरकुमभित्तिषु पदवीं स्थापयितुम् इयेप । चिराय धाराजलपानलम्पटा कृपाणलेखासु लोचने मुमोच । व्याख्या नृपप्रिया राजपत्नी दिक्कुञ्जराणा दिग्दन्तिना कुम्भा एव भित्तयः कुड्यानि भित्ति. स्त्री कुड्यम्' इत्यमरः । तासु पदद्वयीं चरणयुगलं स्थापयितुं निक्षेप्तु मियेषऽचकाङ्क्ष । चिराय चिरकालात् ‘चिराय चिररात्राय चिरस्माद्याश्च रार्थकाः' इत्यमरः । धारायाः प्रवाहस्य जल पयस्तस्य पाने लम्पटा लालसा युवता सा नृपपत्नी कृपाणामा करवालाना रेखा धारा तासु करवालधारासु लोचने नयने मुमोच प्रहितवती । अत्र खड्गधारायां जलधारात्वारोपः । अष रानी, दिग्गजो ये गण्डस्थलरूपी दीवारो पर अपने दोनो पैर रखने की इच्छा करने लगी । चिरकाल से धार का जल पीने की लालसा रखने वाली रानी तलवारो की धारो पर अपनी आखें डालने लगी । अर्थात् गर्भस्थित बालक' में वीर रस प्रधान रहने से रानी के वीर रस का दोहद होने लगा । मुहुः प्रकोपादुपरि स्थितासु सा चकार तारास्वपि पाटले दृशौ । गुरुस्मया कारयितुं दिगङ्गनाः पदाब्जसंवाहनमाजुहाव च ।।७५। अन्वयः गुरुस्मया सा प्रकोपात् उपरिस्थितासु तारकासु अपि मुहुः पाटले दृशौ चकार । पदाब्जसंवाहनं कारयितुम् दिगङ्गनाः आजुहाव च ।